पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[कर्णवेधप्रयोगः]
८७५
संस्काररत्नमाला ।
प्राङ्मुख उपविश्य दक्षिणकर्णमभिमन्त्रयते भद्रं कर्णेभिरिति सव्यमप्येवम्, यदि रोदिति कुमाराय मधुरं दत्त्वा ब्राह्मणभोजनम्" इति ।

विष्णुधर्मोत्तरे--

"पूर्वाह्णे पूजनं कृत्वा केशवस्य शिवस्य च ।
ब्रह्मणश्चन्द्रसूर्याभ्यां दिगीशानां तथैव च ॥
नासत्ययोः सरस्वत्या ब्राह्मणानां गवां तथा ।
गुरूणां मण्डनं कृत्वा तत्र दत्त्वा वरासनम् ॥
तत्रोपवेशयेद्धात्रीं धृतशुक्लाम्बरां तथा ।
अलंकृतं तदुत्सङ्गे बालं धृत्वा तु साऽन्विता ॥
धृतस्य निश्चलं सम्यगलक्तकरसाङ्किते ।
विध्येदनावृते देशे सकृदेवात्र लाघवात् ॥
प्राग्दक्षिणोऽथ वामोऽस्य भिषग्वामस्तु योषितः ।
शिशोर्विधिवर्धनं कार्यं यावदाभरणक्षमम् ॥
कर्णवेधदिने विप्राः सांवत्सरचिकित्सकौ ।
पूज्याश्चाविधवा नार्यः सुहृदश्च तथा द्विजाः" इति ॥

 सूर्यचन्द्राभ्यामिति पष्ठ्यर्थे चतुर्थी । मण्डनं संमाननम् । अलंकृतं तदुत्सङ्ग इत्यनन्तरमुपवेशयेदित्यनुषज्यते । सा धात्री । अन्विता सावधाना । निश्चलं यथा स्यात्तथा सम्यक् । अलक्तकरसचिह्निते वेधस्थाने । अनावृतो देशोऽङ्गणादिस्तत्रोपविष्टो भिषग्वेधकः । लाघवेन कौशल्येन । प्राक्पूर्वं दक्षिणः । अथानन्तरं वामः । अस्य शिशोः पुंसः । योषितः स्त्रियास्तु वामः पूर्वम् । अर्थादनन्तरं दक्षिणः । एवं क्रमेण वेधयेदिति प्राग्दक्षिणोऽथ वामोऽस्येत्यादेरर्थः । शिशोरित्यनन्तरं कर्णच्छिद्रयोरिति शेषः । सांवत्सरिको(रो) दैवज्ञः । चिकित्सको वेधकः ।

देवलः--

"कर्णरन्ध्रे रवेश्छाया न विशेदग्रजन्मनः ।
तं(तां) दृष्ट्वा विलयं यान्ति पुण्यौवाश्च पुरातनाः" इति ॥

एतच्च पुरुषपरं द्रष्टव्यम् ।

अथ प्रयोगः ।

 जन्मदिनाद्दशमे द्वादशे षोडशे वा दिवसे सप्तमाष्टमदशमद्वादशान्यतममासि द्वितीयाद्यष्टान्तान्यतमवत्सरे वा फाल्गुनमीनार्करहितचैत्रधनुरर्करहितपौषबोधिन्युत्तरभूतकार्तिकान्यतममासे, एतेषु मासेषु सर्वथैवासंभवे मीनार्कविशिष्टचैत्रधनुरर्कविशिष्टपौषशयन्यादिबोधिन्यन्तमासव्यतिरिक्तमासे, एकादश्यष्टमीपर्व