पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११९८
[ब्रह्मयज्ञप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

दिशि यावति देशे स्वग्रामच्छदींषि स्वगृहच्छदींषि वा न दृश्यन्ते तावति दूरे नदीतीरे देवखातादितीर्थेऽन्यस्मिन्नपि शुद्धे जलदेशे वा गत्वा हस्तौ पादौ च प्रक्षाल्याऽऽचम्य प्रदक्षिणमावृत्त्योपवीती भूत्वा जलं नमस्कृत्य प्रयतः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्यापः स्पृष्ट्वा देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं ब्रह्मयज्ञेन यक्ष्य इति संकल्प्य हस्तौ जलेन प्रक्षाल्य त्रिराचम्य सोदकेनाङ्गुष्ठमूलेन द्विरोष्ठौ संमृज्याऽऽर्द्राङ्गुलिभिरोष्ठौ सदुपस्पृश्य दक्षिणहस्तेन सव्यं पाणिं पादौ च प्रोक्ष्याऽऽर्द्राङ्गुलिभिः शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य प्रत्यालम्भमपः संस्पृश्येत्येतत्कर्माङ्गमाचमनं कृत्वा प्रभूतान्प्रागग्रान्दर्भानास्तीर्य पाण्योः पवित्रे धृत्वा दक्षिणोत्तरौ पाणी पादौ च कृत्वैवंभूतस्तेषु दर्भेषु प्राङ्मुख एवाऽऽसीनः प्रणवमुच्चार्य भूर्भुवः स्व(सुव(?)रिति तिस्रो व्याहृतीः पठित्वा 'भूस्तत्सवितुर्वरेण्यम् । भुवो भर्गो देवस्य धीमहि । सुवर्धियो यो नः प्रचोदयात् । भूर्भुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । सुवर्धियो यो नः प्रचोदयात् । भूर्भुवः सुवस्तत्सवि० महि धियो० यात्' इत्येवं व्याहृतिवर्जितां वा पच्छोऽर्धर्चशोऽनवानं गायत्रीमधीत्य द्यावापृथिव्योः संधिमीक्षमाणः संमील्य वा यथा युक्तमात्मानं मन्येत तथा युक्त इषे त्वेति काण्डं प्रपाठकमात्रमनुवाकमात्रं वा[१] मनसा यथाशक्त्यधीत्य प्रज्ञातं निधाय नमो ब्रह्मण इति परिधानीयामृचं त्रिः पठित्वा प्रणवमुच्चारयेत् । अत्र ब्रह्म भूर्भुवः सुवः, ॐ शान्तिः शान्तिः शान्तिरिति पठन्ति केचित् ।

 ततोऽप उपस्पृश्य पूर्वोक्तं कर्माङ्गमाचमनं कृत्वा प्रमादादिति विष्णुं स्मरेत् । ततो गृहमागत्य मुष्टिमात्रमन्नमपि कस्मैचिद्ब्राह्मणाय दक्षिणां दद्यात् । एवमेव दिनान्तरे विरामोत्तरवेदमारभ्य पठेत् । एवं रीत्या संहितां ब्राह्मणमारण्यकं च पठेत् । शिक्षा कल्पो व्याकरणं ज्यौतिषं छन्दो निरुक्तमित्यङ्गानि तत्तद्दिने वेदाध्ययनोत्तरमेव क्रमेण प्रज्ञातदेशादारभ्याध्येतव्यानि । पुराणेतिहासादीनां वेदार्थोपबृंहकत्वादङ्गेष्वेवान्तर्भावादेतत्पाठोऽपि प्रज्ञातप्रदेशादारभ्यैव दिनान्तरे कार्यः । आरण्यकप्रपाठकेषु मध्ये विरामेऽपि तत्तत्प्रपाठकस्योत्तरां शान्तिं कृत्वाऽनन्तरं नमो ब्रह्मण इति परिदध्यात् । द्वितीयदिने गायत्रीपाठानन्तरं तत्तत्प्रपाठकस्य पूर्वां शान्तिं कृत्वा कृतान्तादारभेत्(त) । इत्यारण्यकाध्ययने विशेषः । अनध्याये स्वल्पो ब्रह्मयज्ञः कार्यः । वेदान्तराध्ययनसत्त्वे तमपि वेदं साङ्गस्ववेदसमाप्तौ पठेत् । तत्तदङ्गानि च । व्याकरणादिकमपि तत्तद्वेदसमाप्त्युत्तरं पुनः पठेत् । एकस्मिन्नेव


  1. ङ. वा य ।