पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११९६
[तर्पणविधिः]
भट्टगोपीनाथदीक्षितविरचिता--

 अकरणे प्रत्यवायः पुराणे दर्शितः--

"देवताश्च पितॄंश्चैव मुनीन्वा यो न तर्पयेत् ।
देवादीनामृणी भूत्वा नरकं प्रतिपद्यते" इति ।

 योगयाज्ञवल्क्योऽपि--

"नास्तिक्याद्यो नरस्तांस्तु न तर्पयति वै पितॄन् ।
पिबन्ति देहनिस्रावं पितरोऽस्य जलार्थिनः" इति ।

हारीतोऽपि--

"देवाश्च पितरश्चैव काङ्क्षन्ति सरितां जलम् ।
अदत्ते तु निराशास्ते प्रतियान्ति यथागतम्" इति ।

कात्यायनोऽपि--

"छायां यथेच्छेच्छरदातपार्तः पयः पिपासुः क्षुधितोऽलमन्नम् ।
बालो जनित्रीं जननी च बालं योषित्पुमांसं पुरुषश्च योषाम् ।
तथा सर्वाणि भूतानि स्थावराणि चराणि च ।
पितरो जलमिच्छन्ति सर्वे ह्युदककाङ्क्षिणः ।
तस्मात्सदैव कर्तव्यमकुर्वन्महदेनसा ।
युज्यते ब्राह्मणः कुर्वन्विश्वमेतद्बिभर्ति हि" इति ।

 अत्र पितृगाथा--

"अपि नः स कुले भूयाद्यो नो दद्याज्जलाञ्जलिम् ।
नदीषु बहुतोयासु शीतलासु विशेषतः" इति ।

 यद्यप्येतस्माद्वचनादुदके तर्पणं प्रतीयते तथाऽपि पूर्वोदाहृतगोभिलादिवचनानुरोधादशुचिस्थलविषयं द्रष्टव्यम् । यत्तु वृत्तिकृता जले तर्पणमुक्तं तदप्येतद्विषयमेव । तर्पणानन्तरं वस्त्रनिष्पीडनं कर्तव्यम् । तदाह योगयाज्ञवल्क्यः--

"यावद्देवानृषींश्चैव पितॄंश्चापि न तर्पयेत् ।
तावन्न पीडयेद्वस्त्रं यो हि स्नातो भवेद्द्विजः ।
निष्पीडयति यो वस्त्रं स्नानवस्त्रमतर्पिते ।
निराशाः पितरो यान्ति शापं दत्त्वा सुदारुणम्" इति ।

बृहत्पराशरोऽपि--

"निष्पीडयेत्स्नानवस्त्रं तिलदर्भसमन्वितम् ।
न पूर्वं तर्पणाद्वस्त्रं नैवाम्भसि न पादयोः" इति ।

 निष्पीडनं स्थले कार्यम् । तदुक्तं स्मृत्यन्तरे--

"वस्त्रनिष्पीडितं तोयं श्राद्धे चोच्छिष्टभोजिनाम् ।
भागधेयं श्रुतिः प्राह तस्मान्निष्पीडयेत्स्थले" इति ।

स्मृतिमञ्जर्याम्--

"जलमध्ये यदा कश्चिद्ब्राह्मणो ज्ञानदुर्बलः ।
निष्पीडयति वस्त्राणि स्नानं तस्य वृथा भवेत्" इति ।