पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[तर्पणविधिः]
११८९
संस्काररत्नमाला ।

 दर्भेषु विशेषमाह नारदः--

"तर्पणादीनि कार्याणि पितॄणां यानि कानिचित् ।
तानि स्युर्द्विगुणैर्दर्भैः सप्तपत्रैर्विशेषतः" इति ।

 अत्र तर्पणाङ्गत्वेन विधानाद्धारणदर्भापेक्षात एतेषां भेदः । तेन खड्गपात्रादिभिस्तर्पणे तन्मध्ये प्रागग्रादिदर्भान्तरनिधानं तिलप्रक्षेपश्चेति संप्रदायविदः । नवीनास्तु मरीचिवाक्ये दर्भादिपदोत्तरतृतीयाया उपपदविभक्तितया कारकविभक्तित्वाभावान्न दर्भाणां तर्पणाङ्गत्वं किंतु सामान्यतःप्राप्तसर्वाङ्गत्वानामशुद्धस्थलसंस्कारकत्वेन वा प्राप्तानां दर्भाणां विन्यासविशेषविधानार्थोऽयमनुवादः । तेन धारणदर्भापेक्षया दर्भान्तरग्रहणमित्याहुः । न चात्र समुच्चयः, नापि समविकल्प इत्यभिप्रेत्याऽऽह मरीचिः--

"तिलानामप्यभावे तु सुवर्णरजतान्वितम् ।
तदभावे निषिञ्चेत्तु दर्भैर्मन्त्रेण वा पुनः" इति ।

 ([१] अनेन मन्त्रावश्यकत्वमुक्तं भवति । अत एव जाबालिः--

"सुवर्णं रजतं दर्भान्यथालाभं प्रयोजयेत् ।
न मन्त्रेण विना कार्यं कदाऽपि तर्पणं बुधैः" इति ।

गौतमः--

"कुशानामप्यलाभे तु काशा दूर्वा अथापि वा ।
संयोज्य तर्पणं कुर्यान्न तु शून्यकरः क्वचित्" इति ।

 अत्र विशेषमाह प्रजापतिः--

"तर्पणादीनि कार्याणि पितॄणां यानि कानिचित् ।
तानि स्युर्द्विगुणैर्दर्भैः सपवित्रैर्विशेषतः" इति ।

 भृगुः--

"प्रागग्रैस्तर्पयेद्देवानुदगग्रैस्तु मानुषान् ।
तानेव द्विगुणीकृत्य तर्पयेत्प्रयतः पितॄन्" इति ।

 तानेवेति देवतर्पणविनियुक्तानामपि तेषां पितृतर्पणयोग्यतेत्युक्तमिति हेमाद्रिः ।) तिलग्रहणे विशेषमाह योगयाज्ञवल्क्यः--

"यद्युद्धृतं निषिञ्चेत्तु शिलान्संमिश्रयेज्जले ।
अतोऽन्यथा तु सव्येन तिला ग्राह्या विचक्षणैः" इति ।

 अन्यथाऽनुद्धृतेन तर्पणे । सव्येन तिला ग्राह्या इत्येतदलोमकप्रदेशाभिप्रायम् । तथा च देवलः--

"रोमसंस्थं तिलान्कृत्वा यस्तु तर्पयते पितॄन् ।
पितरस्तर्पितास्तेन रुधिरेण मलेन वा"इति ।


  1. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।