पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वेदपारायणोपाकरणोत्सर्जने]
११८१
संस्काररत्नमाला ।

स्रग्धूपदीपताम्बूलैरक्षतैश्च पितामहम् ।
ब्रह्म जज्ञानमिति वा गायत्र्या वा प्रपूजयेत् ॥
ततो गुरुं च संपूज्य यथापाठं पठेत्ततः" इति ।

 सुनिर्णिक्तः सुप्रक्षालितः । वाग्युतो वाचा सरस्वत्या युतः । ब्रह्मोपधाने ब्रह्मणः शिरस उपधानार्थं दत्त्वोपधानस्थाने स्थापयित्वेति यावत् । स्वस्त्ययनं ततः पठेत् । स्वस्तिशब्दमयतीतिव्युत्पत्त्या स्वस्तिशब्दघटितो मन्त्रः स्वस्त्ययनशब्देनोच्यते । तं मन्त्रं पठेदित्यर्थः[१] । अन्यत्स्पष्टम् । बौधायनसूत्रे दक्षिणादानश्रवणादृत्विग्द्वाराऽपि पारायणं भवति । पारायणस्य केनचिदन्येन कर्मणा वाग्जल्पेन वा पाठविच्छेदश्चेत्तदा प्राणायामाचमने कृत्वा प्रणवेन प्रतिसंधाय पठनीयम् । अनुवाकान्ते विरमणम् । पुनर्दिनान्तरे कृतनित्यक्रियः प्रणवेन प्रतिसंधाय पठेत् । तदुक्तं बौधायनेन--'नान्तरा व्याहरेन्नान्तरा विरमेद्यावदन्तमधीयीत यदन्तरा विरमेत्त्रीन्प्राणायामान्कृत्वाऽऽचम्य प्रणवेन प्रतिसंधाय यावत्कालमधीयीत' इति ।

 उपक्रान्तवेदपारायणमध्ये न व्याहरेत् । नाध्यापयेत्तथा लौकिकवचनमपि न ब्रूयात् । विहितनित्यनैमित्तिककर्मानुपयुक्तामुक्तिं न कुर्यात् । नान्तरा प्रश्नमध्येऽनुवाकमध्ये वा विरमणं कुर्यात् । यद्यन्तरा कुर्यात्तदा त्रीन्प्राणायामान्कृत्वाऽऽचम्य प्रणवमुच्चार्य यत्र विरमणं कृतं तत आरभ्य पठेदिति सूत्रार्थः । अत्र पदच्छेदं कृत्वैव पठेत् । ।

'माधुर्यमक्षरव्यक्तिः परच्छेदस्तु सुस्वरः ।
धैर्यं लयसमर्थं च षडेते पाठका गुणाः"

 इति पाणिनीयशिक्षावचनात् ।

 अथ संहितायामेकप्राणभाव इतिप्रातिशाख्यसूत्रे[२]--एकप्राणेन भाव्यत उच्चार्यत इत्येकप्राणभावः । एकेनोच्छ्वासेन यावानुच्चार्यते वेदभागस्तावानेकप्राणभाव इत्यर्थः । अत एवावसाने पदविधि[३]रिति तद्भाष्यकृतोक्तत्वाच्च । एतच्च ग्रहणाध्ययनधारणाध्ययनब्रह्मयज्ञेष्वपि ज्ञेयम् । संकल्पमारभ्योत्सर्जनसमाप्त्यन्तं पारायणम् । तत्र संकल्पोत्तरं कर्तुर्वरणोत्तरमृत्विजश्चास्मिन्कर्मण्याशौचादि नास्तीत्युक्तमेव । ऋत्विक्कर्तृके पारायणे सुवर्णं गां वा दक्षिणां दद्यात् । स्वकर्तृकेऽपि यथाशक्ति ब्राह्मणेभ्यो दक्षिणा देयैव । ऋत्विक्कर्तृके पारायणे होमोऽपि तत्कर्तृक एव । तस्य पारायणाङ्गत्वात् । भिन्नकर्तृकेषु बहुषु


  1. ङ. र्थः । बौ ।
  2. ङ. त्रे संहिताग्रहणमवसा ।
  3. ङ. भिर्भवतीत्येतदर्थमिति त ।