पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११८०
[वेदपारायणोपाकरणोत्सर्जने]
भट्टगोपीनाथदीक्षितविरचिता--

ख्यापनाच्चोपाकरणमप्यतिदिश्यते । तथा सति वेदोपाकरणरीत्या वेदपारायणोपाकरणं वेदोत्सर्जनरीत्या वेदपारायणसमाप्तिरिति । [१]नन्वेवं पारायण इति वक्तव्ये समाप्तावितिवचनं प्रक्रान्तपारायणस्य जननमरणकृताशौचेन प्रतिबन्धेऽनध्यायदिवसे च प्राप्तेऽप्यन्वहं पाठेन समाप्तेरावश्यकत्वबोधनार्थम् । तथा च बौधायनो वेदपारायणं प्रकृत्य 'नास्यान्तराऽनध्यायो नास्यान्तरा जननमरणे अशुची' इति ।

 अस्य पारायणकर्मणो मध्येऽनध्यायो न । न चास्य मध्ये जन्ममरणे अशुचित्वहेतुभूते भवत इत्यर्थः । हस्तरोहिणीपौर्णमास्यात्मकः कालो नात्रातिदिश्यते । पारायणस्य काम्यत्वात् । त्र्यहमेकाहं वा क्षम्येत्येतदप्यत्र न प्रवर्तते । तस्य[२] क्षम्येत्यत्रत्यसमानकर्तृकक्रियार्थकक्त्वाप्रत्ययेन[३] यथाध्यायमध्येतव्यमित्युत्तरवाक्यविहिताङ्गत्वमेवावगम्यते । न तूपाकरणोत्सर्जनाङ्गत्वम् । उत्सर्जने तु दूर्वारोपणमुदधावूर्मिनिष्पाद[४]नं च साक्षान्निषेधादेवात्र न भवति[५] । उदधावूर्मिनिष्पादनसंबन्धधावनमपि न । स च संबन्धः क्त्वाप्रत्ययात् । इदं पारायणं काम्यम् । पापक्षयपुत्रधनधान्यस्वर्गाद्यैहिकामुष्मिकफलार्थतया बौधायनेन विहितत्वादकरणे प्रत्यवायाश्रवणाच्च । पारायणं नामाध्ययनधर्मपूर्वकं मन्त्रब्राह्मणयोरन्वहमविच्छिन्नपाठेन पारगमनम् । आरण्यकं तु ब्राह्मणमेव । आरण्यकसंज्ञा तु अरण्येऽध्येतव्यत्वाद्द्रष्टव्या । अत्र पुराणे कलशस्थापनं तत्र सविशेषं ब्रह्मपूजनं चोक्तम्--

"तीर्थे देवालये गेहे प्रशस्ते सुपरिष्कृते ।
कलशं सुदृढं तत्र सुनिर्णिक्तं विभूषितम् ॥
पुष्पपल्लवमालाभिश्चन्दनैः कुङ्कुमादिभिः ।
मृत्तिकां यवसंमिश्रां वेदिमध्ये क्षिपेत्ततः ॥
पञ्चाशद्भिः कुशैः कार्यो ब्रह्मा पश्चान्मुखः स्थितः ।
वाग्युतः स्थापितः कुम्भे चतुर्बाहुश्चतुर्मुखः ॥
वत्सजान्वाकृतिं वेदमुत्तराग्रैः कुशैः कृतम् ।
ब्रह्मोपधाने दत्त्वा तं ततः स्वस्त्ययनं पठेत् ॥
प्रतिष्ठां कारयेत्पश्चात्पूजाद्रव्याण्य(व्यम)थोच्यते ।
यज्ञोपवीतनैवेद्यवस्त्रचन्दनकुङ्कुमैः ॥


  1. नन्वित्यसंबद्धम् ।
  2. ङ. स्य यथाध्यायमध्येतव्यमित्युत्तरवाक्ये कर्तव्यत्वेन विहितस्य प्रहणधारणात्मकाध्ययनस्य क्ष ।
  3. ङ. येनाङ्ग ।
  4. ङ. दनमाजिधावनं ।
  5. ङ.ति । इ ।