पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उत्सर्जनप्रयोगः]
११७९
संस्काररत्नमाला ।
(वेदपारायणोपाकरणोत्सर्जने)
 

पत्न्या सहैव गच्छेत् । ततः समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वोत्सर्जनहोमकर्मणि या यक्ष्यमाणा इत्यादियज्ञोपवीतधारणान्तमुपाकरणवत्सर्वं कुर्यात् । तत्रोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये विशेषः । ततः सर्व इषे त्वेत्यनुवाकमधीयन्ते(ते) काण्डादीन्वा पूर्ववत् । यद्यनारब्धवेदाः शिष्याः स्युस्तदा तान्वाचयेत् । उत्सर्जनात्पूर्वमेवेषे त्वेत्यनुवाकं काण्डादीन्वाऽध्यापयेदिति केचित् । नात्र ब्रह्मयज्ञविधिः । तत आचार्य [१]उत्सृष्टा वै वेदाः । त्र्यहमेकाहं वाऽनध्यायः कार्य इति शिष्यान्वदेत् । ततश्चित्तं च स्वाहेत्यादिपूर्णपात्रदानान्तं कृत्वाऽग्निं संपूज्य विभूतिं धारयेत् । ततः सर्वे जलसमीपं गत्वा, काण्डात्काण्डादितिद्वयोर[२]ग्निर्याज्ञिक्यो० यंभूर्वा दूर्वाऽनुष्टुप् । दूर्वारोपणे विनियोगः । 'काण्डात्काण्डात्प्र० वयम् । इति मन्त्रद्वयान्त एकैकां दूर्वां बह्व्यो वा(ह्वीर्वा) दूर्वा रोपयन्ति । ततो जलाशयं विलोडनेनोर्मिमन्तं कृत्वा जलाशयाद्बहिः प्राचीमुदीचीं वा दिशं यावद्बलं शीघ्रं धावनं कृत्वा गृहमागच्छेयुः । ततः सर्वेऽपूपैः सक्तुभिरोदनेनान्यैश्च व्यञ्जनै पूजनपूर्वकं ब्राह्मणान्भोजयेयुः । तत्रापूपाः प्रथमं परिवेषणीयाः । ततः सक्तवः । तत ओदनः । ततोऽन्यानि व्यञ्जनानि, इति परिवेषणे क्रमः । नैवात्र त्रिवृदन्नहोमः । ततः शिष्या आचार्याय हिरण्यं गां वा दक्षिणां दत्त्वा प्रमादादिति विष्णुं स्मरेयुः । आचार्योऽपि यस्मै कस्मैचिद्ब्राह्मणाय हिरण्यं गां वा दक्षिणां दत्त्वा प्रमादादिति विष्णुं स्मरेत् । आचारात्सर्वे सुवृष्ट्यर्थं पर्जन्यसूक्तानि पठेयुः । उत्सर्जनोत्तरं यावदुपाकर्म शुक्लपक्षेषु धारणाध्ययनं कृष्णपक्षेषु व्याकरणाद्यङ्गाध्ययनं च कुर्यान्न त्वपूर्ववेदाध्ययनम् । अथवा त्र्यहमेकाहं वा स्वाध्यायदिनेषु विरम्य कृतान्तादपूर्ववेदाध्ययनं कर्तव्यम् । उत्सर्जनस्योपाकरणदिवसेऽनुष्ठानेऽपि तन्त्रं नैव भवति । तयोर्ग्रहणत्यागरूपयोः स्वरूपविरोधात् । इत्युत्सर्जनप्रयोगः ।

अथ वेदपारायणोपाकर[३]णोत्सर्जने ।

तत्र सूत्रम्--"एवं पारायणसमाप्तौ दूर्वारोपणोदधिधावनवर्जम्" इति ।

 एवमित्यतिदेशादविकृता वेदोपाकरणोत्सर्जनोक्ता धर्मा वेदपारायणोपाकरणे तत्समाप्तौ च कर्तव्याः । यद्यप्युत्सर्जनमेव संनिहितं तथाऽपि[४] ग्रहणं विना त्यागायोगात् 'उपाकरणोत्सर्जने व्याख्यास्यामः' इति सूत्रेणैतयोः संयुक्तत्व


  1. क. पुस्तकटिप्पण्याम् 'अत्राप्युत्सृष्टानि काण्डानीति युक्तम्' इति वर्तते ।
  2. ङ. रग्निः स्वयं ।
  3. ङ. रणप्रयोगः । त ।
  4. ङ. पि संग्र ।