पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११७८
[उत्सर्जनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

आसनं कल्पयामि । अमुकशर्मणे मातुलाय सपत्नीकायाऽऽसनं कल्पयामीत्येवं वा । अमुकशर्मणे भ्रात्र आसनं कल्पयामि । अमुकदायै भ्रातृपत्न्या आसनं कल्पयामि । अमुकशर्मणे भ्रात्रे सपत्नीकायाऽऽसनं कल्पयामीत्येवं वा । अमुकदायै पितृष्वस्रे सभर्तृकायै सापत्याया आसनं कल्पयामि । अमुकदायै मातृष्वस्रे सभर्तृकायै सापत्याया आसनं कल्पयामि । अमुकदाया आत्मभगिन्यै सभर्तृकायै सापत्याया आसनं कल्पयामि । अमुकशर्मणे श्वशुराय सपत्नीकाय सापत्यायाऽऽसनं कल्पयामि । अमुकशर्मणे गुरवे सपत्नीकाय सापत्यायाऽऽसनं कल्पयामि, इति यथाधिकारं किंचिद्व्यवधानेन संलग्नान्येवाऽऽसनानि कल्पयेयुः[१] । शिष्याप्तसत्त्वेऽमुकशर्मणे शिष्यायाऽऽसनं कल्पयामि । अमुकशर्मण आप्तायाऽऽसनं कल्पयामीत्येवमेतयोरप्यासने कल्पयेयुः[२] । न वा स्त्र्यादयोऽत्र । ततः सर्वे--ब्रह्मणे नमः, ब्रह्माणमावाहयामीत्येवं तत्तन्नाममन्त्रैर्देव[३]र्षिपितॄनावाहयेयुः । आसनकल्पनाद्युपस्थानान्तेषु पदार्थेषूपवीतं देवानां निवीतमृषीणां प्राचीनावीतं पितॄणां ज्ञेयम् । ततो ब्रह्माणं तर्पयामीत्येवमूहितैस्तत्तन्नामम[४]न्त्रैरासनं समर्पयामीत्येवं कल्पितान्यासनानि समर्पयेयुः । अथ वाऽऽसनकल्पनमेव [५] वा समर्पणम् । अस्मिन्कल्प आसनकल्पनात्पूर्वमेवाऽऽवाहनं ज्ञेयम् । ततो ब्रह्मणे स्वाहेत्याद्यूहेनान्नेनार्चनम् । पितृष्वपि स्वाहाशब्द एव न स्वधाशब्दः । ततः पूर्वतर्पणवत्फलोदकेन तर्पणं कृत्वा ब्रह्मणे नमः प्रजापतये नम इत्याद्यूहेन ब्रह्मादीनेकपत्न्यन्तानुपस्थाय, अमुकशर्मणे पित्रे नम इत्याद्यूहेन तत्तन्नाम्ना सर्वान्पितॄनुपस्थाय सर्वान्विसर्जयेयुः । सर्वत्र रुद्रश[६]ब्द उदकस्पर्शः । सर्वोपचारसमर्पणाशक्तौ केवलसूत्रोक्ता एवोपचाराः समर्पणीयाः । ततोऽपरेण वेदिमुत्सर्जनाङ्गभूतहोमार्थं स्थण्डिलं कृत्वा गोमयेनोपलिप्योद्धननादिना संस्कृत्य सशिष्यत्वे श्रोत्रियागारादाहृतमग्निं बलवर्धननामानमग्निं प्रतिष्ठापयामीत्युक्तरीत्या प्रतिष्ठाप्य प्रज्वाल्य ध्यायेत् । अशिष्यत्वे गृह्याग्निं गमनवेलायामेवारण्योः समारोपितं मथित्वा स्थण्डिले निधाय प्रज्वाल्य ध्यायेत् । समित्समारोपे तु श्रोत्रियागारादाहृतं लौकिकाग्निं स्थण्डिले निधाय प्रज्वाल्य ध्यायेत्


  1. क. युः । न ।
  2. ङ. युः । त ।
  3. ङ. च. वपि ।
  4. ङ. च. मन्त्रान्त आस ।
  5. अयं वाशब्दोऽधिकः ।
  6. क. शब्देनोद ।