पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उत्सर्जनप्रयोगः]
११७७
संस्काररत्नमाला ।

आसनं कल्पयामि० अङ्गिरोभ्य आसनं कल्पयामीत्यन्तेभ्यः परस्परसंलग्नान्येवाऽऽसनानि कल्पयेयुः । विश्वे(श्व)देवासनमादित्यासनसंलग्नमेव । ततो निवीतिनो देवानामुत्तरत उदीचीनप्रवणं देशं गोमयेनोपलिप्योदगग्रैः सप्तभिः सप्तभिस्त्रिभिस्त्रिभिर्वा दर्भैः प्रागपवर्गाण्यासनानि कल्पयन्ति 'विश्वामित्रायाऽऽसनं कल्पयामि० वसिष्ठायाऽऽसनं कल्पयामि' इति । ततोऽरुन्धत्यर्थं स्थलमवशि(शे)ष्य कश्यपायाऽऽसनं कल्पयामीति--कश्यपायाऽऽसनं कल्पयित्वाऽवशेषिते स्थलेऽरुन्धत्या आसनं कल्पयामीत्यरुन्धत्यै वसिष्ठकश्यपासनसंलग्नमेवाऽऽसनं कल्पयित्वा देवेभ्यो दक्षिणत उपलिप्ते प्राचीनप्रवणे देशेऽगस्त्यायाऽऽसनं कल्पयामीति प्रागग्रमासनं कल्पयेयुः । ततोऽगस्त्यस्य दक्षिणतः प्राचीनप्रवणाद्यन्यतमे देशे चतुरश्रायामर्थपरिमाणायां वेद्यां प्रागग्रैः सप्तभिः सप्तभिस्त्रिभिस्त्रिभिर्वा दर्भैरुदगपवर्गाण्यासनानि कल्पयन्ति । कृष्णद्वैपायनायाऽऽसनं कल्पयामि० इतिहासपुराणायाऽऽसनं कल्पयामीति संलग्नान्येवाऽऽसनानि कल्पयन्ति । केषुचित्सूत्रपुस्तकेषु वरूथिन इत्यनन्तरं वाजिन इत्यपि पाठः । अस्मिन्पाठे द्विपञ्चाशदृषयो ज्ञेयाः । रुद्रासनकल्पनोत्तरमुदकस्पर्शः । ततः प्राचीनावीतिनः कृष्णद्वैपायनादीनां दक्षिणतो दक्षिणाप्रवणं देशं गोमयेनोपलिप्य तत्र दक्षिणाग्रैः सप्तभिः सप्तभिस्त्रिभिस्त्रिभिर्वा दर्भैः प्रत्यगपवर्गाण्यासनानि कल्पयन्ति । वैशम्पायनायाऽऽसनं कल्पयामि० एकपत्नीभ्य आसनं कल्पयामीति संलग्नान्येवाऽऽसनानि कल्पयन्ति । अथाजीवपितृकाः-- अमुकशर्मणे पित्र आसनं कल्पयामि । अमुकशर्मणे पितामहायाऽऽसनं कल्पयामि । अमुकशर्मणे प्रपितामहायाऽऽसनं कल्पयामि । अमुकदायै मात्र आसनं कल्पयामि । अमुकदायै पितामह्या आसनं कल्पयामि । अमुकदायै प्रपितामह्या आसनं कल्पयामि । अमुकदायै सापत्नमात्र आसनं कल्पयामि । अमुकशर्मणे मातामहायाऽऽसनं कल्पयामि । अमुकशर्मणे मातुःपितामहायाऽऽसनं कल्पयामि । अमुकशर्मणे मातुःप्रपितामहायाऽऽसनं कल्पयामि । अमुकदायै मातामह्या आसनं कल्पयामि । अमुकदायै मातुःपितामह्या आसनं कल्पयामि । अमुकदायै मातुःप्रपितामह्या आसनं कल्पयामि । अमुकदायै स्त्रिया आसनं कल्पयामि । सापत्यत्वेऽमुकदायै सापत्यायै स्त्रिया आसनं कल्पयामि, इत्यूहः । अमुकशर्मणे पुत्रायाऽऽसनं कल्पयामि । अमुकशर्मणे पौत्रायाऽऽसनं कल्पयामि । अमुकशर्मणे पितृव्यायाऽऽसनं कल्पयामि । अमुकदायै पितृव्यपत्न्या आसनं कल्पयामि । अमुकशर्मणे पितृव्याय सपत्नीकायाऽऽसनं कल्पयामीत्येवं वा । अस्मिन्कल्पे पृथक्पितृव्यपत्न्या आसनकल्पनं न । सापत्यत्वे सापत्यायेत्यपि । एवमग्रेऽपि । अमुकशर्मणे मातुलायाऽऽसनं कल्पयामि । अमुकदायै मातुलपत्न्या


१४८