शप्रार्थनदेवताप्रार्थन[१]मार्जनजलावलोडनपूर्वकं स्नानं कृत्वाऽऽघमर्षणेन प्राणायामानापो हि ष्ठादिभिर्मार्जनं च कृत्वा यत्पृथिव्यामित्यादीन्मन्त्रान्पठेत् । ततः शिखां बद्ध्वा ( [२]द्विराचम्य 'ब्रह्माणं तर्पयामि । प्रजापतिं तर्पयामि । अङ्गिरसस्तर्पयामि' इति देवतीर्थेन प्राङ्मुखो यज्ञोपवीती-- एकैकाञ्जलिना देवान्संतर्पयेत् । अशक्तौ) 'ब्रह्मादयो ये देवास्तान्देवांस्तर्पयामि । भूर्देवांस्तर्पयामि । भु[३]वो देवांस्तर्पयामि । सुवर्देवांस्तर्पयामि । भूर्भुवः सुवर्देवांस्तर्पयामि । इ[४]त्येवं तर्पयेत् । ततः--'विश्वामित्रं तर्पयामि । जमदग्निं तर्पयामि । इतिहासपुराणं तर्पयामि' इति प्राजापत्यतीर्थेनोदङ्मुखो निवीती द्वाभ्यां द्वाभ्यामञ्जलिभ्यामृषींस्तर्पयेत् । अशक्तौ 'विश्वामित्रादयो य ऋषयस्तानृषींस्तर्पयामि । भूर्ऋषींस्तर्पयामि । भुव[५]र्ऋषींस्तर्पयामि । सुवर्ऋषींस्तर्पयामि । भूर्भुवः सुवर्ऋषींस्तर्पयामि' इ[६]त्येवं तर्पयेत् । ततः 'वैशम्पायनं तर्पयामि । पलिङ्गुं तर्पयामि । एकपत्नींस्तर्पयामि' इति पितृतीर्थेन दक्षिणामुखः प्राचीनावीती त्रिभिस्त्रिभिरञ्जलिभिः पितॄंस्तर्पयेत् । अशक्तौ 'वैशम्पायनादयो ये पितरस्तान्पितॄंस्तर्पयामि । भूः पितॄंस्तर्पयामि । भुवः पितॄंस्तर्पयामि । सुवः पितॄंस्तर्पयामि । भूर्भुवः स्वः पितॄंस्तर्पयामि' इ[७]त्येवं तर्पयेत् । ततः 'ये के चास्मत्कुले० द्धनोदकम्' इति परिधानीय[८] वस्त्रं निष्पीड्य, यज्ञोपवीती-- 'यन्मया दूषितं० तर्पयाम्यहम्' इति यक्ष्मतर्पणं कृत्वा[९],
|
"ज्ञानतोऽज्ञानतो वाऽपि यन्मया दुष्कृतं कृतम् । |
इति नदीं क्षमाप्य स्वयमेव देहे शुष्के सति केशजले च स्रुते शु[१०]ष्कं वस्त्रं त्रिरवधूयोदक्प्राग्वा विस्तार्य परिदध्यात् । परिहितमार्द्रं वस्त्रं नाभेरूर्ध्वमेवोत्तारयेत् । दक्षिणतः प्रत्यग्वा विस्तारणे तद्वस्त्रं न परिधेयम् । यदि परिधेयं प्रक्षाल्यैव परिधेयम् । ततस्तादृगेवोत्तरीयं शुष्काभाव आर्द्रमेव सप्तवारमवधूय परिधेयम् । ([११] उत्तरीयवस्त्रालाभे तृतीयमुपवीतं धार्यम् । तस्यापि
- ↑ ङ. नज ।
- ↑ धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।
- ↑ च. भुवर्देवा ।
- ↑ ङ. इति देवतीर्थेन प्राङ्मुखो यज्ञोपवीती--एकैकाङ्गलिना देवान्संतर्प्य विश्वामित्रा ।
- ↑ ङ. व ऋषीं ।
- ↑ ङ. इति प्राजापत्यतीर्थेनोदङ्मुखो निवीती द्वाभ्यां द्वाभ्यामञ्जलिभ्यामृषीन्संतर्प्य, वैशम्पायनादयो ।
- ↑ ङ. इति पितृतीर्थेन दक्षिणामुखः प्राचीनावीती त्रिभिस्त्रिभिरञ्जलिभिः पितॄंस्तर्प ।
- ↑ ङ. च. य नि ।
- ↑ ङ. त्वा, स्व ।
- ↑ ङ. शुद्धं शुष्कं ।
- ↑ धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके 'आर्द्रवस्त्रं चतुर्गुणमुपरिदशं स्थले निष्पीड्य द्विराचम्य तिलकं कुर्यात् । अयं च स्नानविधिः सर्वेषाम्' इति वर्तते ।