पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११७४
[उत्सर्जनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

कुर्यात् । नद्यभावेन जलाशयादौ स्नाने तु अर्काभिमुखः स्नायात् । सर्वत्राप्यर्काभिमुखमेव वा स्नानम् । एतत्त्रिरिति स्मृतिकाराः । यदि तु क्षुद्रनदीजलाशयादौ स्नानं तदा 'गङ्गे च यमुने चैव० संनिधिं कुरु । पुष्कराद्यानि० सदा मम' इति तीर्थान्यावाह्यानन्तरमत्याशनादिति मन्त्रद्वयं पठित्वा स्नानं कार्यमिति विशेषः । तत इमं मे गङ्ग इत्यस्य[१] याज्ञिक्यो० भूर्वा गङ्गादिनद्यो जगती । गङ्गादिनदीप्रार्थने विनियोगः । 'इमं मे गङ्गे य० सुपोमया' इति गङ्गादिनदीः संप्रार्थ्य, ऋतं चेति तृचस्य[२] याज्ञिक्यो० भूर्वाऽघमर्षणो वरुणोऽनुष्टुप् । प्राणायामे विनियोगः । 'ऋतं च स० सुवः' इत्युपांशु पठित्वा तदन्ते प्राणमायच्छेत् । एवमन्यौ द्वौ प्राणायामौ । अथवा निमग्नः सन्नेव मनसा सूक्तं पठन्प्राणायामं कुर्यात् । एवमन्यौ द्वौ प्राणायामौ । इत्यन्यतरकल्पेन प्राणायामं विधाय द्विराचम्य कर्मारम्भधृते पवित्रे त्यक्त्वाऽन्ये पवित्रे धृत्वाऽऽपो हि ष्ठेति मन्त्रत्रयस्य[३] याज्ञिक्यो० भूर्वाऽऽपो गायत्री । हिरण्यवर्णा इति मन्त्रचतुष्टयस्याग्निरापस्त्रिष्टुप् । पवमानानुवाकमन्त्राणां प्रजापतिर्ऋषिः । पवमानः(न)सुवर्जनादयो देवताः । गायत्र्यनुष्टुप्त्रिष्टुबिति च्छन्दांसि । मार्जने विनियोगः । 'आपो हि ष्ठा० च नः । हिरण्यवर्णाः शुच० धत्त । पवमानः सुवर्ज० पुनातु' इति जलस्थः सपवित्रेण पाणिनैव तत्तन्मन्त्रसमुदायान्ते सर्वान्ते वा मार्जनं कुर्यात् । प्रतिमन्त्रं मार्जनमिति केचित् । ततो द्विराचम्य, यत्पृथिव्यामिति मन्त्रचतुष्टयस्य[४] याज्ञिक्यो० भूर्वा, ऋषिः । वरुणो देवता प्रथमस्यानुष्टुप् । द्वितीयस्य यजुः । तृतीयस्य द्विपदा गायत्री । चतुर्थस्य गायत्री । स्नाने विनियोगः । 'यत्पृथिव्या० मर्पणः १ पुनन्तु वसवो० गोप्ता २ एष पुण्य० रण्मयम् ३ द्यावापृथिव्यो० शिशाधि ४ इति सर्वमन्त्रान्ते स्नात्वा पुनर्द्विवारं तूष्णीं स्नात्वा, आर्द्रं ज्वलतीत्यस्य[५] याज्ञिक्यो० भूर्वा ज्योतिर्यजुः । आचमने विनियोगः । 'आर्द्रं ज्वलति० होमि स्वाहा' इतिमन्त्रावृत्त्या द्विराचम्य, अकार्यकारीत्यस्[६]य याज्ञिक्यो० भूर्वा वरुणोऽनुष्टुप् । रजो भूमिरित्यस्य[७] याज्ञिक्यो० भूर्वा वरुणो यजुः । स्नाने विनियोगः । 'अकार्यका० रजो भूमि०' इति द्वाभ्यां स्नानं कृत्वा तूष्णीं द्विराचामेत् । द्वाभ्यां मन्त्राभ्यां स्नानद्वयं वा । आक्रानित्यस्य[८] याज्ञिक्यो० भूर्वा परमात्मा त्रिष्टुप् । जपे विनियोगः । 'आक्रान्समुद्रः० इन्दुः' इति जपेत् । एतावत्कर्तुमशक्तौ तीर्थे


  1. ङ. स्य स्वयंभूर्गङ्गा ।
  2. ङ. स्य स्वयंभूरघ ।
  3. ङ. स्य स्वयंभूरापो ।
  4. ङ. स्य स्वयंभूर्ऋषिः ।
  5. ङ. स्य ज्यो ।
  6. ङ. स्य स्वयभूर्वरु ।
  7. ङ. स्य स्वयंभूर्वरु ।
  8. ङ स्य स्वयंभूः प ।