पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उत्सर्जनप्रयोगः]
११७३
संस्काररत्नमाला ।

भवा० ६ इति प्राच्यादिदिक्चतुष्टय ऊर्ध्वमधश्चेति तत्तन्मन्त्रेण लोष्टमुत्क्षिप्य गन्धद्वारामित्यादित्याय दर्शयित्वा श्रीर्मे भजत्विति ललाटमालिप्यालक्ष्मीर्मे नश्यत्विति प्रदक्षिणं शिरो विलिप्य विष्णुमुखा इति मुखं महा इन्द्र इति बाहू सोमानमिति कुक्षी शरीरं यज्ञशमलमिति शरीरं चरणं पवित्रमिति चरणौ विलिप्य सजोषा इन्द्रेति मृच्छेषं शिरसि निधाय सुमित्रा न इत्यद्भिरात्मानमासिच्य दुर्मित्रा इत्यादिभिर्द्वेष्यं ध्यायन्भूमौ[१] क्षिपेदिति प्रयोगो द्रष्टव्यः ।) भस्मगोमयमृत्तिकास्नानानि कृताकृतानि । ततः--हिरण्यशृङ्गमिति मन्त्र[२]स्य याज्ञिक्यो० भूर्वा तीर्थाधिपतिर्वरुणो बृहती । तीर्थाधिपतिप्रार्थने विनियोगः । हिरण्यशृङ्गं वरु० इति तीर्थाधिपतिं वरुणं संप्रार्थ्य[३], यन्मे मनसेत्यस्य याज्ञिक्यो० भूर्वा, इन्द्रो वरुणो बृहस्पतिः सविता च स्वराड्बृहती । इन्द्रादिप्रार्थने विनियोगः । 'यन्मे मनसा० पुनः पुनः' इतीन्द्रादिदेवताः स्वस्य पावित्र्यार्थं संप्रार्थ्य, नमोऽग्नयेऽप्सुमत इत्यत्य[४] याज्ञिक्यो० उपनिषदोऽग्निरप्सुमानिन्द्रो वरुणो वारुण्यापश्च यजुः । नमस्कारे विनियोगः । 'नमोऽग्नयेऽप्सुमते० नमोऽद्भ्यः' इति मन्त्रोक्तदेवता नमस्कृत्य, सुमित्रा न इत्यस्य[५] याज्ञिक्यो० भूर्वाऽऽपो यजुः । मार्जने विनियोगः । 'सुमित्रा० सन्तु' इत्यात्मानमद्भिर्मार्जयित्वा तूष्णीमञ्जलिनोदकमादाय, दुर्मित्रा योऽस्मान्द्वेष्टि यं चेति मन्त्रत्रयस्य[६] याज्ञिक्यो० भूर्वाऽऽपो यजुः । द्वेष्यनाशार्थं जलक्षेपणे विनियोगः । 'दुर्मित्रास्त० भूयासुः' [इति] यस्यां दिशि द्वेष्यो भवति तस्यां दिशि क्षिपति । 'योऽस्मान्द्वेष्टि' इति द्वितीयम् । 'यं च वयं द्विष्मः' इति तृतीयम् । द्वेष्याभावे पाप्मानं मनसा ध्यायन्प्राच्यामेव दिशि क्षिपेत् । अथवा सुमित्रा न इत्यारभ्य वयं द्विष्म इत्यन्त एक एव मन्त्रस्तेन जलाभिमन्त्रणं कार्यम्[७] । अस्मिन्पक्षे जलाभिमन्त्रणे विनियोग इति विनियोगवाक्ये विशेषः । ततः--यदपां क्रूरमित्यस्[८]य याज्ञिक्यो० भूर्वाऽऽपो द्विपदा त्रिष्टुप् । निमज्जनार्थं जलदोषदूरीकरणे विनियोगः । 'यदपां क्रूरं य० तात्' इति निमज्जनं यत्र कर्तव्यं भवति तत्रत्यजलदोषं हस्ताभ्यामवलोडनेन दूरीकृत्य, 'सागरस्य तु निश्वासो० रेश्वर' इति नमस्कृत्य, अत्याशनादितिमन्त्रद्वयस्य[९] याज्ञिक्यो० भूर्वा वरुणोऽनुष्टुप् । पठने विनियोगः। 'अत्याशनाद० लोकताम्' इति मन्त्रद्वयं पठित्वा शिखां विस्रस्य[१०] पुरतः कृत्वा प्रवहज्जले प्रवाहाभिमुखः स्नानं


  1. च. मौ निक्षि ।
  2. ङ. न्त्रद्वयस्य ।
  3. ङ. र्थ्य, नमोऽ ।
  4. ङ. स्य स्वयंभूरग्न्यप्सुमदादयो यजुः । मन्त्रोक्ता देवताः । न ।
  5. ङ. स्य स्वयंभूरापो ।
  6. ङ. स्य स्वयंभूरापो ।
  7. ङ म् । त ।
  8. ङ. स्य स्वयंभुरापो ।
  9. ङ. स्य वरुणः स्वयंभूरनु ।
  10. ङ. स्य केशान्पुर ।