पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११६६
[उत्सर्जनम्]
भट्टगोपीनाथदीक्षितविरचिता--

सामीप्यं पूर्वं स्नानोपक्रमाज्जलस्य ज्ञेयम् । स्मृतित एव शुचिदेशस्य प्राप्तावत्र विधानं शुद्धस्यापि देशस्य गोमयोपलेपनेनापि शुद्धिरस्मिन्नवसरेऽवश्यं कार्येतिज्ञापनार्थम् । प्राचीनप्रवण इतिवचनं समत्वोदक्प्रवणत्वप्रागुदक्प्रवणत्वबाधनार्थम् । प्राचीनप्रवणः प्राच्यां दिशि निम्न इत्यर्थः । उदगग्रताया अपि पक्षे प्राप्तत्वात्तद्बाधनार्थं प्रागग्रैरिति दर्भविशेषणम् । दर्भैरितिबहुवचनात्त्रयस्त्रयो दर्भा ज्ञेयाः ।

"ऋषीणामासनं दर्भैः सप्तभिः सप्तभिः स्मृतम्"

 इति स्मृतितः सप्त सप्त वाऽऽसने दर्भाः । एतस्यां स्मृतावृषिग्रहणं देवपित्रुपलक्षणम् । तेन देवपित्रासनदर्भाणामपि सप्तसंख्या ज्ञेया । उदगपवर्गाणीतिवचनं पक्षे प्राप्तायाः प्रागपवर्गताया बाधनार्थम् । कल्पयन्तीतिबहुवचनाच्छिष्यैरपि पृथक्पृथगासनकल्पनं कार्यं न त्वन्वारम्भमात्रेण सिद्धिः । एवमितरोपचारसमर्पणमपि । तत्र बहुवचनान्तस्यैव क्रियापदस्यानुषङ्गात् । न चाऽऽसनकल्पनमात्रं पृथक्पृथगस्तु, इतरोपचारसमर्पणं त्वाचार्येणैव कार्यमिति वाच्यम् । पूज्यै(जै)कदेशस्याऽऽसनकल्पनस्य बहुवचनेन सर्वकर्तृकत्वे सिद्ध इतरोपचारसमर्पणेऽपि सर्वकर्तृ[क]त्वस्यैव युक्तत्वात् । ब्रह्मादिभ्योऽङ्गिरोन्तेभ्यः । ब्रह्मण आसनं कल्पयामि, प्रजापतय आसनं कल्पयामीत्येवं ब्रह्मणे कल्पयामि, प्रजापतये कल्पयामीत्येवं वा तत्तन्नामभिस्तस्मै तस्मा आसनं कल्पयेयुरित्यर्थः । देवगणानामितिवचनं दैवेन तीर्थेन तर्पणार्थम् । देवानामित्येव सिद्धे ग[१]णानामिति ग्रहणं त्रयोविंशतिसंख्याकेषु[२] देवेषु मध्ये ब्रह्मादिनक्षत्रान्त एको गणः, इन्द्रराजादिवैश्रवणराजान्तो द्वितीयः पञ्चानां गणः, वस्वाद्यङ्गिरोन्तस्तृतीयो गण इति गणत्रित्वं ज्ञापयितुम् । ब्रह्मादिनक्षत्रान्तानां संलग्नान्यासनानि किंचिद्व्यवधानेन द्वितीयगणस्य तथैवाऽऽसनानि तथैव तृतीयस्येत्येवमनुष्ठानं गणत्रित्वस्य फलम् । इन्द्रराजादिवैश्रवणराजान्तानां राजत्वादिसमानधर्मत्वादेकगणत्वे सिद्धे ब्रह्मादिनक्षत्रान्तानामेको गणः, वस्वाद्यङ्गिरोन्तानामेको गण इत्यर्थात्सिध्यति । पञ्चसु राजत्वं तु "इन्द्रो राजा जगतश्चर्षणीनाम् । इन्द्रो राजा जगतो य ईशे । यमो राजा प्रसृणाभिः पुनातु मा । यमाय मधुमत्तम राज्ञे हव्यं जुहोतन । आपो दीक्षा, तया वरुणो राजा दीक्षया दीक्षितः । ओषधयो दीक्षा, तया सोमो राजा दीक्षया दीक्षितः । राजाधिराजाय प्रसह्यसाहिने । नमो वयं वैश्रवणाय कुर्महे" इत्यादिमन्त्रसिद्धमपि । विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः । अत्रिर्वसिष्ठः कश्यप इत्येते सप्तर्षय इत्येतत्सूत्रं यत्र यत्र


  1. ङ. गणग्र ।
  2. क. च. पु. म