पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपाकरणम्]
११६१
संस्काररत्नमाला ।

पूर्ववत् । उपाकर्मप्रधानाज्यहोमे विनियोग इति विनियोगे विशेषः । सवित्र इदमिति त्यागः । तत ऋग्वेदाय स्वाहा । ऋग्वेदायेदं न मम । यजुर्वेदाय स्वाहा । यजुर्वेदायेदं न मम । सामवेदाय स्वाहा । सामवेदायेदं न मम । अथर्ववेदाय स्वाहा । अथर्ववेदायेदं न मम । सदसस्पतये स्वाहा । सदसस्पतय इदं न मम । अथवा 'सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिष स्वाहा' इति मन्त्रेण होमः । एतस्यर्ष्यादिकाण्डव्रतप्रकरण उक्तम् । उपाकर्मप्रधानाज्यहोमे विनियोग इति विनियोगे विशेषः । त्यागस्तु स एव । ततो दर्व्यां यज्ञोपवीतं गृहीत्वा यज्ञोपवीतं परममित्यस्य पर[१]ब्रह्म परमात्मा देवता त्रिष्टुप् । यज्ञोपवीतधारणाङ्गभूतहोमे विनियोगः । 'यज्ञोपवीतं० तेजः स्वाहा' इत्यग्नौ जुहोति । परमात्मन इदमिति त्यागः । अत्राऽऽचाराद्ब्रह्मचारिणे यज्ञोपवीतं मेखलामजिनं दण्डं च तत्तत्मन्त्रेण दत्त्वा जीर्णान्यप्सु प्रक्षिपेदिति शिष्टाः । सर्वैर्यथाचारं यज्ञोपवीतानि ब्राह्मणेभ्यो दत्त्वा विधिना धार्याणि । ([२] दानधारणे शास्त्रान्तरोक्तत्वात्कृताकृते । एवं तदङ्गभूतहोमोऽपि ।) ततः सर्वे 'इमे त्वा यज्ञस्य शुन्धध्वम्' इति त्रीननुवाकानधीयते । अथवा--इषे त्वेत्यनुवाकः । आप उन्दन्त्वित्यनुवाकः । धर्मः शिरस्तदयमग्निरित्यनुवाकः । अनुमत्यै पुरोडाशमष्टाकपालं निर्वपतीति संहिताप्रथमकाण्डस्याष्टमप्रश्नाद्यानुवाकः । सह वै देवानामिति खण्डद्वयम् । भद्रं कर्णेभिरित्यनुवाको मन्त्रद्वयं वा । शीक्षां व्याख्यास्याम इत्यनुवाकः[३] । भृगुर्वै वारुणिरित्यनुवाकः । अम्भस्य पारे भुवनस्य मध्य इत्यनुवाक ए[४]कर्ग्वा । इत्येते काण्डादयस्तानधीयीरन् । खण्डद्वयाध्ययने पूर्वमुत्तरं च नमो ब्रह्मण इति


१४६
 
  1. च. स्मा ।
  2. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यो ग्रन्थः स यथा--"हुत्वा दत्त्वा च धारयेदिति शास्त्रान्तराद्यज्ञोपवीतहोमस्यापि प्रधानत्वेन कर्तव्यत्वं कैश्चिदुक्तं तत्तुच्छम् । हुत्वा दत्त्वा च धारयेदिति क्त्वाप्रत्ययाद्धोमदानयोरुपाकरणोत्सर्जनाङ्गभृतयज्ञोपवीतधारणाङ्गत्वस्यैव प्रतीतिः प्रधानत्वाभावात् । होमदानधारणानि शास्त्रान्तरप्रोक्तत्वात्कृताकृतानि । करणेऽभ्युदयेऽकरणे प्रत्यवायाभाव इति द्रष्टव्यम् । हुत्वेति क्त्वाप्रत्ययः पूर्वकालत्वमात्रं बोधयति न त्वङ्गत्वं, तेन यज्ञोपवीतहोमस्य प्रधानत्वमेवेति यद्युच्यते तदाऽपि यज्ञोपवीतहोमा[न]नुष्ठानमेव । प्रधानोपसंहारस्यानिष्टत्वात् । अन्यथोपनयनादिष्वपि शास्त्रान्तरोक्तप्रधानहोमातिप्रसङगापत्तेः । न चैव हुत्वा दत्त्वा च धारयेदिति शास्त्रान्तरोक्तस्य यज्ञोपवीतहोमस्य निरवकाशत्वापत्तिरिति वाच्यम् । यस्मिन्सूत्रे कारिकासु वा यज्ञोपवीतहोमो विहितो भवेत्तत्रैतस्य सावकाशत्वसंभवात् । अस्ति चायं होमो विहित आश्वलायनगृह्यकारिकासु । दानधारणयोस्तु प्रधानत्वाभावादुपसंहारः शक्तौ सत्यां न विरुद्धः" इति ।
  3. ङ. कः । ब्रह्मविदित्यनुवाकः । भृ ।
  4. क. इर्कावरा । च एकार्वरा ।