पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपाकरणप्रयोगः]
११५९
संस्काररत्नमाला ।

कुर्यात् । ([१][२]यं संकल्पः प्रथमोपाकरणोत्तरं वेदारम्भ इति पक्षे । तत्पूर्वं वेदा[३]ध्ययनारम्भ इति पक्षे तु-- अधीतानां छन्दसामध्येष्यमाणानां चास्थानोच्छ्वासादिजनितयातयामतानिरासपूर्वकाप्यायनसिद्धिपुनर्वेदग्रहणाधिकारसिद्धिद्वारेत्येवं संकल्पः । द्वितीयाद्युपाकर्मणि तु--अध्येष्यमाणानां छन्दसामस्थानोच्छ्वासादिजनितयातयामतानिरासपूर्वकाप्यायनसिद्धिपुनर्वेदग्रहणाधिकारसिद्धिद्वारेत्येवं संकल्पः ।) यदा तु स्वस्यान्तेवासिनः शिष्याः स्युस्तदा[४] श्रीपरमेश्वरप्रीत्यर्थमित्यनन्तरमेभिः शिष्यैः सह वेदोपाकरणाख्यं कर्म करिष्य इत्येवमूहेन संकल्पः कार्यः । उपाकरणकर्मसंकल्पः सर्वैरपि कार्य इति[५] संप्रदायः । कृतविवाहैः शिष्यैस्तु केनचिन्निमित्तेन गुरुसांनिध्येऽपि पृथगेवोपाकर्म कार्यम्[६] । उपाकर्मप्रथमप्रयोगाङ्गभूतं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च प्रधानसंकल्पोत्तरं तत्पूर्वं वा तत्पित्रा तदभावे तत्पितामहादिभिः कारयेत् । सर्वेषामप्यभा[७]व आचार्य एव कुर्यात् । तत्र संस्कार्यस्य पितॄणामुत्कीर्तनम्[८] । यदि पितैवाऽऽचार्यस्तदा प्रथमोपाकर्मप्रयुक्तं गणपतिपूजनादि स्वयमेव कुर्यात् । प्रथमोपाकर्म भद्राव्यतीपाताधिमासास्तादिषु न भवति । अत्रोक्तं संभवद्दिनं ग्राह्यम् । द्वितीयादिष्वपि[९] शुद्धकालान्तरसंभवे भद्राव्यतीपाताधिमासास्तादिनिषेधोऽस्त्येवेति केचित् । तत आचार्य उपाकर्माङ्गभूतहोमा[१०]र्थस्य स्थण्डिलस्य गोमयोपलेपनोद्धननादिसंस्कारं विधाय बलवर्धननामानमग्निं प्रतिष्ठापयामीति लौकिकाग्निं तत्र प्रतिष्ठाप्य प्रज्वाल्य ध्यायेत् । यदि शिष्या न स्युस्तदौपासनाग्निमेव बलवर्धननामाऽयमग्निरिति ध्यायन्प्रज्वाल्य ध्यायेत् । नोद्धननादिप्रतिष्ठापनान्तमत्र । ततोऽन्वाधानम् । समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वा प्रधानहोमे प्रजापतिं काण्डर्षिं सोमं काण्डर्षिमग्निं काण्डर्षिं विश्वान्देवान्काण्डर्षीन्सावित्रीमृग्वेदं यजुर्वेदं सामवेदमथर्ववेदं सदसस्पतिं चाऽऽज्येन यक्ष्ये । यज्ञोपवीतधारणाङ्गभूतयज्ञोपवीतहोमे परमात्मानं यज्ञोपवीतेन यक्ष्ये । जयोपहोमे चित्तं चित्तिमित्यादि । स्वायंभुवकाण्डस्य वैश्वदेवकाण्डानन्तर्भावपक्षे विश्वान्देवान्काण्डर्षीनित्येतदनन्तरं स्वयंभुवं काण्डर्षिमित्युक्त्वा सावित्रीमित्यादि वदेत् । आरुणकाण्डस्याप्यनन्तर्भावपक्षे स्वयं


  1. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
  2. च. यं च स ।
  3. च. दार ।
  4. ङ. दा, एभिः ।
  5. ङ. ति शिष्टाः । तत्रैभिः शिष्यैः सहेत्यस्य लोपः । कृ ।
  6. ङ. म् । कस्यचिच्छिष्यस्य यदि प्रथमोपा ।
  7. ङ. भावे स्वयमेव कु ।
  8. ङ. म् । पुत्रस्य चेत्प्रथममुपा ।
  9. ङ. पि म ।
  10. क. मार्थं स्थ ।