पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११५८
[आपूर्विकतन्त्रेण ब्रह्मकूर्चहोमप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
(उपाकरणप्रयोगः)
 

योगः । पञ्चगव्याभिमन्त्रणे विनियोगः । पञ्चगव्यपाने विनियोगः । इति विनियोगवाक्येषु विशेषः ।

 ततो ह[१]स्तपादमुखप्रक्षालनं कृत्वा पवित्रे त्यक्त्वा द्विराचम्यान्ये पवित्रे धृत्वा स्वासन उपवि[२]श्य स्विष्टकृदाद्यङ्गहोमादि वा पूर्वान्तानुसारेण होमशेषं समापयेत् । अयं च सर्वैरपि पृथक्पृथगेव कार्यः । एतच्च कृताकृतम् ।

अथाऽऽपूर्विकतन्त्रेण प्रयोगः ।

 कर्ताऽऽचमनाद्यन्वाधानाङ्गभूतप्राणायामान्तं कृत्वा ब्रह्मकूर्चहोमकर्मणि या यक्ष्यमाणा[३] इत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा, प्रधानहोमे, अग्निं पञ्चगव्येन यक्ष्य इत्यादि पञ्चगव्यचतुर्थभागेन[४] यावत्य आहुतयो भवन्ति तावतीभिः पञ्चगव्याहुतिभिर्यक्ष्य इत्यन्तमुक्त्वा समिधोऽग्नावाधायाग्निं परिस्तीर्य दर्वीं सप्तपत्रात्मकान्हरितानक्षतान्केनचिद्दर्भेण बद्धान्दर्भानाज्यस्थालीं पञ्चगव्यार्थं पाद्माद्यन्यतमं पा[५]त्रमुपवेषं संमार्गदर्भा[६]निध्मं बर्हिरवज्वलनदर्भानाज्यं पञ्च गव्यानि समिधं चाऽऽसाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य दर्वीं दर्भांश्च संमृज्य पञ्चगव्यं निष्पाद्याऽऽज्यविलापनादिपवित्राभ्याधानान्तं कुर्यात् । पर्यग्निकरणकाले पञ्चगव्यस्यापि पर्यग्निकरणम् ।

 ततः--"अदितेऽनुमन्यस्व" इति परिषेकं कृत्वाऽऽसादितां समिधमाधाय पूर्ववत्प्रधानाहुतीर्हुत्वाऽवशिष्टं पञ्चगव्यं प्रणवेनाऽऽलोड्य प्रणवेनाभिमन्त्र्य प्रणवेन सर्वं[७] पूर्ववत्पिबेत् ।

 ततो ह[८]स्तपादमुखप्रक्षालनं कृत्वा पवित्रे त्यक्त्वा द्विराचम्यान्ये पवित्रे धृत्वा व्यस्तसमस्तव्याहृतिभिश्चतस्र आहुतीर्जुहुयात् । एतद्धोमाकरणे नाऽऽज्यसंस्कारः । पञ्चगव्यस्य पर्यग्निकरणं भवत्येव । ततः परिस्तरणानि विसृज्योत्तरपरिषेकं कुर्यात् । इति ब्रह्मकूर्चहोमप्रयोगः ।

अथोपाकरणप्रयोगः ।

 कर्ता कृतनित्यक्रियः पवित्रपाणिराचम्य प्राणानायम्य देशकालौ संकीर्त्य, अध्येष्यमाणानां छन्दसामस्थानोच्छ्वासादिजनितयातयामतानिरा[९]सपूर्वकाप्यायनसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं वेदोपाकरणाख्यं कर्म करिष्य इति संकल्पं


  1. ङ. हस्तं मुखं च प्रक्षाल्य पवि ।
  2. ङ. विश्वाद्द्होमादि स्विष्टकृदादि वा होमशेषं ।
  3. ङ. णा देवतास्ताः सर्वाः परिग्रहीष्यामि । अग्नि ।
  4. ङ. न यक्ष्य ।
  5. ङ. पात्रं प्रोक्षणीपात्रमु ।
  6. ङ. भानवज्व ।
  7. ङ. पिबे ।
  8. ङ. हस्तं सुखं च प्रक्षाल्य पवि ।
  9. ङ. रासेनाऽऽप्या ।