पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपाकरणम्]
११५७
संस्काररत्नमाला ।
(ब्रह्मकूर्चहोमप्रयोगः)
 

बर्हिष्याज्यासादनानन्तरमाज्यस्योत्तरतो बर्हिषि पञ्चगव्यपात्रासादनम् । आज्योत्पवनानन्तरं पञ्चगव्यस्याप्युत्पवनमिति केचित् ।

 ततः पवित्रप्रहरणादि, अन्वाधानोत्कीर्तितपक्षानुसारेण प्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वा कृत्वा पञ्चगव्यहोमं कुर्यात् ।

 स यथा--आसादितान्सप्त दर्भान्गृहीत्वा तैरुद्धृत्योद्धृत्य जुहोति । ([१] अशक्यत्वाद्दर्भेषु दर्वी सहायार्थं ग्राह्या । अग्नये स्वाहा सोमाय स्वाहेत्यनयोर्वामदेवो विश्वे देवा ऋषयः । अग्नीषोमौ क्रमेण देवते यजुः पञ्चगव्यहोमे विनियोगः ।) 'अग्नये स्वाहा' अग्नय इदं० । 'सोमाय स्वाहा' सोमायेदं० । इरावतीमितिमन्त्रस्य सोमो विष्णुस्त्रिष्टुप् । पञ्चगव्यहोमे विनियोगः--'इरावती धेनु० मयूखैः स्वाहा' विष्णव इदं० । इदं विष्णुरित्यस्य सोमो विष्णुर्गायत्री । पञ्चगव्यहोमे विनियोगः-- इदं विष्णुर्विचक्रमे० पा सुरे स्वाहा' विष्णव इदं० । विष्णोर्नुकमित्यस्य सोमो विष्णुस्त्रिष्टुप् । पञ्चगव्यहोमे विनियोगः-- 'विष्णोर्नुक० गायः स्वाहा' विष्णव इदं० । मा नस्तोक इत्यस्याग्नी रु[२]द्रो जगती । पञ्चगव्यहोमे विनियोगः--'मा नस्तोके तनये० विधेम ते स्वाहा' रुद्रायेदं० । अप उपस्पृश्य, तत्सवितुरिति गायत्र्या विश्वामित्र ऋषिः । सविता देवता गायत्री छन्दः । पञ्चगव्यहोमे विनियोगः-- 'तत्सवितुर्वरेण्यं भर्गो० यात्स्वाहा'सवित्र इदं० । ब्रह्म जज्ञानमित्यस्याग्निर्ब्र[३]ह्मा त्रिष्टुप् । पञ्चगव्यहोमे विनियोगः-- 'ब्रह्म जज्ञानं० विवः स्वाहा' ब्रह्मण इदं[४]० अवशिष्टपञ्चगव्यस्य चतुर्थभागं पालाशपत्र उद्धृत्य, प्रणवस्य परब्रह्मर्षिः परमात्मा देवता गायत्री छन्दः । पञ्चगव्यचतुर्थभागहोमे विनियोगः । 'ॐ स्वाहा' इत्यावृत्तेन प्रणवमन्त्रेण यावतीभिराहुतीभिश्चतुर्थभागहोमो भवति तावतीराहुतीर्दर्भैरेव जुहुयात् । परमात्मन इदं० । अन्वाधाने यद्यग्नेरुत्कीर्तनं कृतं भवति तदा प्रणवस्य देवतोत्कीर्तनेऽग्निरुत्कीर्तनीयः । अस्मिन्कल्पेऽग्नय इदमिति त्यागः ।

 ततोऽवशिष्टं पञ्चगव्यं प्रणवेनाऽऽलोड्य तेनैवाभिमन्त्र्याऽऽसनाद्बहिरुपविश्य प्रणवेन[५] हस्तेनाऽऽदौ किंचित्पीत्वाऽवशिष्टं सर्वं हस्तेन पात्रान्तरेण वा तूष्णीमेव पिबेत् । अत्रापि पूर्ववदृष्यादिस्मरणम् । पञ्चगव्यालोडने विनि


  1. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
  2. ङ. रुद्रस्त्रिष्टुप् । प ।
  3. ङ. र्ब्रह्म त्रि ।
  4. ङ. दं । प्र ।
  5. ङ. न सर्वं पिबेत् ।