पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११५६
[उपाकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( ब्रह्मकूर्चहोमप्रयोगः )
 

स्विष्टकृ[१]तं हुतशेषाज्याहुत्या यक्ष्य इत्यादि वा, समिदभ्याधानान्तं कृ[२]त्वा, पात्रासादने दर्वीं सप्तपत्रात्मकान्हरितानक्षतान्केनचिद्दर्भेण बद्धा[३]न्दर्भानाज्यस्थालीं पञ्चगव्यार्थं पाद्मं पालाशमुदुम्बरवृक्षनिर्मितं बिल्ववृक्षनिर्मितं वा ताम्रमयं वा पात्रं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानिध्मं बर्हिरवज्वलनदर्भानाज्यं पञ्चगव्यानि चाऽऽसाद्य ब्रह्मवरणादि, त[४]त्र दर्वीसंमार्गानन्तरं होमार्थदर्भाणामपि दर्वीवत्संमार्गः । तत आज्यविलापात्पूर्वमेवापरेणाग्निं दर्भेषु पञ्चगव्यार्थमासादितं पात्रं निधाय तस्मिन्पवित्रे निधाय तत्सवितुरित्यस्य विश्वामित्र ऋषिः सविता देवता गायत्री छन्दः । पञ्चगव्यार्थं गोमूत्रादाने विनियोगः-- 'तत्सवितुर्व० यात्' इति नीलवर्णाया गोः पलपरिमितं मूत्रं पञ्चगव्यार्थ आसादिते पात्रे गृहीत्वा, गन्धद्वारामित्यस्य[५] याज्ञिक्यो देवता उपनिषद ऋषिः श्रीर्देवता । अनुष्टुप्छन्दः । गोमयादाने विनियोगः-- 'गन्धद्वारां० श्रियम्' इति तस्मिन्गोमूत्रे कृष्णाया गोरङ्गुष्ठाप[६]रिमितं शकृद्गृहीत्वा, आप्यायस्वेत्यस्य सोमोऽग्निर्वा ऋषिः सोमो देवता गायत्रीच्छन्दः क्षीरादाने विनियोगः-- 'आप्यायस्व स० संगथे' इति ताम्रवर्णाया गोः सप्तपलपरिमितं क्षीरं तस्मिन्नेव गृहीत्वा, दधिक्राव्ण इत्यस्य विश्वे देवा ऋषयः । दधिक्रावा देवताऽनुष्टुप्छन्दः, दध्यादाने विनियोगः--दधिक्राव्णो अ० तारिषत्" इति श्वेताया गोः पलत्रयपरिमितं दधि तस्मिन्नेव गृहीत्वा, शुक्रमसीत्यस्य प्रजापतिर्ऋषिः, आज्यं देवता, यजुः, आज्यादाने विनियोगः--'शुक्रमसि ज्योतिरसि तेजोऽसि' इति कपिलाया गोरेकपलमितमाज्यं तस्मिन्नेव गृहीत्वा, देवस्य त्वेत्यस्य प्रजाप[७]तिरग्निः सोमो वा ऋषिः । उदकं देवता, यजुः । कुशोदकादाने विनियोगः-- 'देवस्य त्वा सवितुः० हस्ताभ्यां गृह्णामि' इत्येकपलपरिमितं सप्तभिः कुशैः स्रावितमुदकं तस्मिन्नेव गृह्णीयात् । देवस्य त्वेत्यस्मिन्मन्त्रेऽभिषिञ्चामीति वाक्यशेषं केचिदाहुः ।

 तत आपो हि ष्ठेतिमन्त्रत्रयस्याग्निर्विश्वे देवा[८] वा ऋषयः । आपो देवता, गायत्रीछन्दः । पञ्चगव्यमन्थने विनियोगः--'आपो हि ष्ठा० था च नः' इति[९] तैरेव सप्तभिः कुशैरन्यैर्वा मन्थेत् ।

 तत आज्यं विलाप्येत्यादि पर्यग्निकरणकाले पञ्चगव्यस्यापि पर्यग्निकरणं,


  1. ङ. कृतमाज्येन यक्ष्य ।
  2. ङ. कुर्यात् ।
  3. क. द्धाना ।
  4. क. च. तत्राऽऽज्य ।
  5. ङ. स्य स्वयंभूर्ऋषिः श्रीर्दे ।
  6. क. च. तं तद्गृ ।
  7. क. पतिः सो ।
  8. क. वा ऋ ।
  9. ङ. ति सप्तभिर्दर्भैर्मन्ये ।