पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपाकरणम्]
११५५
संस्काररत्नमाला ।
(ब्रह्मकूर्चहोमप्रयोगः)
 

 एतत्किंचिदध्ययनवतोऽप्यावश्यकम्--

"अकृतोपाकृतिर्विप्रो दानहोमजपादिकम् ।
यद्यत्करोति तत्सर्वं निष्फलं तस्य वै भवेत्"

 इति संस्कारमञ्जर्यां संग्रहवचनात् । आदिशब्देनार्चनादि ज्ञेयम् ।

विश्वप्रकाशे--

"उपाकर्मोत्सर्जनयोः श्रौतानां कर्मणां तथा ।
प्रथमानुष्ठितावेव स्वस्तिवाचनमिष्यते" इति ।

 स्वस्तिवाचनग्रहणं मातृकापूजनवृद्धिश्राद्धयोरुपलक्षणम् ।

 ([१] श्रावण्यामभ्यङ्गोऽप्युक्तो मानवसूत्रानुसारिपद्धतौ--

"श्रावण्यां बलिराज्ये च वसन्तदर्शने तथा ।
तैलाभ्यङ्गमकुर्वाणो नरकं प्रतिपद्यते" इति ॥)

अथ ब्रह्मकूर्चहोमप्रयोगः ।

 कर्ता नदीप्रस्रावो यस्मिन्देशे तत्र तीर्थे यज्ञागारे गवां गोष्ठे देवतायतने नि[२]र्ज[३]नेऽरण्ये देशे रहस्ये ग्रामेऽप्येका[४]न्ते देशे वा स्नातः शुक्लवासा जितेन्द्रियः शुचिराचम्य प्राणानायम्य देशकालौ संकीर्त्योपाकर्म कर्तुमादौ शरीरशुद्ध्यर्थं ब्रह्मकूर्चहोमं पञ्चगव्याशनं च करिष्य इति संकल्पं कुर्यात् । उत्सर्जनस्याप्यस्मिन्दिने क्रियायाम्--उत्सर्जनोपाकर्मणी कर्तुमादाविति संकल्पवाक्य ऊहः कार्यः ।

 ततः स्थण्डिलं कृत्वा तद्गोमयेनोपलिप्योद्धननादिसंस्कारं विधाय तत्र विण्नामानं श्रोत्रियागारादाहृतं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा ब्रह्मकूर्चहोमकर्मणि या यक्ष्यमाणा इत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा, प्रधानहोमे--अग्निं पञ्च[५]गव्याहुत्या यक्ष्ये । सोमं पञ्चगव्याहुत्या यक्ष्ये । विष्णुं ति[६]सृभिः पञ्चगव्याहुतिभिर्यक्ष्ये । रुद्रं पञ्चगव्याहुत्या यक्ष्ये । अत्रोदकस्पर्शः । सवितारं पञ्च० । ब्रह्म पञ्च० । परमात्मानमग्निं वा प्रणवेन पञ्चगव्यचतुर्थभागेन[७] यावत्य आहुतयो भवन्ति तावतीभिः पञ्चगव्याहुतिभिर्यक्ष्ये । अङ्गहोमे वरुणं[८] द्वाभ्यामाज्याहुतिभ्यामित्यादि, अग्निं


  1. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
  2. ङ. निर्जने देशे रहस्ये दे ।
  3. च. र्जन भार ।
  4. ब. कान्तदे ।
  5. ङ. पुस्तक आहुतिशब्दरहितः पञ्चगव्येनेतिपाठः । एवमग्रेऽपि ।
  6. ङ. त्रिवारं । च. त्रिः ।
  7. ङ. न यक्ष्ये ।
  8. ङ. णं द्विरित्यादि ।