पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११५४
[उपाकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--

 एतच्च गृहस्थवानप्रस्थयोरपि--

"गृहस्थो ब्रह्मचारी वा वनस्थो वाऽपि सूत्रकम् ।
हुत्वाऽग्नौ गुरवे दत्त्वा पितृभ्यो धारयेत्स्वयम्"

 इति स्मृतिदर्पणे बैजवापोक्तेः ।

 स्मृतौ--

"यज्ञोपवीतमन्त्रेण हुत्वाऽग्नावुपवीतकम् ।
दत्त्वा तु गुरवे नू[१]त्नं धृत्वा स्वाध्यायमारभेत्" इति ॥

 नू[२]त्नं नूतनम् । ([३] हुत्वा दत्त्वा च धारयेदितिशास्त्रान्तराद्यज्ञोपवीतहोमस्यापि प्रधानत्वेन कर्तव्यत्वं कैश्चिदुक्तं तत्तुच्छं, हुत्वा दत्त्वा च धारयेदितिक्त्वाप्रत्ययाद्धोमदानयोरुपाकरणोत्सर्जनाङ्गभूतयज्ञोपवीतधारणाङ्ग[त्व]स्यैव प्रतीतेः प्रधानत्वाभावात् । होमदानधारणानि शास्त्रान्तरप्रोक्तत्वात्कृताकृतानि । करणेऽभ्युदयः, अकरणे प्रत्यवायाभाव इति द्रष्टव्यम् । हुत्वेति क्त्वाप्रत्ययः पूर्वकालतामात्रं बोधयति न त्वङ्गत्वं तेन यज्ञोपवीतहोमस्य प्रधानत्वमेवेति यद्युच्यते तदा यज्ञोपवीतहोमाननुष्ठानमेव प्रधानोपसंहारस्यानिष्टत्वात् । अन्यथोपनयनादिष्वपि शास्त्रान्तरोक्तप्रधानहो[४]मकरणापत्तेः । न चैवं हुत्वा दत्त्वा च धारयेदिति शास्त्रान्तरोक्तस्य यज्ञोपवीतहोमस्य निरवकाशत्वापत्तिरिति वाच्यम् । यस्मिन्सूत्रे कारिकासु वा यज्ञोपवीतहोमो विहितो भवेत्तत्रैतस्य सावकाशत्वसंभवात् । अस्ति चायं होमो विहित आश्वलायनगृह्यकारिकासु । दानधारणयोस्तु प्रधानत्वाभावादुपसंहारः शक्तौ सत्यां न विरुद्धः ।)

 दानफलमुक्तं वायुपुराणे--

"उपाकर्मणि चोत्सर्गे यो दद्यादुपवीतकम् ।
आयुष्माञ्जायते तेन कर्मणा मानवो भुवि" इति ॥

 स्मृतिभामत्यां गोभिलः--

"उपाकर्मोत्सर्जनं च वनस्थानामपीष्यते ।
धारणाध्ययनाङ्गत्वाद्गृहिणां ब्रह्मचारिणाम् ॥
उत्सर्जनं च वेदानामुपाकरणकर्म च ।
अकृत्वा वेदजाप्येन फलं नाऽऽप्नोति मानवः" इति ।


  1. क. च. नूनं ।
  2. क. च. नूनं ।
  3. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
  4. च. होमाक