पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपाकरणम्]
११५३
संस्काररत्नमाला ।

कृत्प्रतिपद्यत इत्येवमर्थः संपन्नो भवति । अन्तं कृत्वेति भिन्नमेव सूत्रम् । अन्तं कर्मणोऽन्तं कृत्वा कर्मशेषं समाप्येत्यर्थः । स्विष्टकृदन्तं कृत्वेत्येकसूत्रकरण उत्तरकर्मलोपापत्तिः । यदि स्विष्टकृदुत्तरभाविकर्मानुष्ठानमावश्यकत्वात्प्रतिपत्तिरूपत्वाच्च कर्तव्यमित्युच्यते तदा स्विष्टकृदन्तं कृत्वेत्यस्यावधिप्रदर्शकसूत्रस्य वैयर्थ्यापत्तिः । न च भवतु स्विष्टकृदुत्तरभाविकर्मलोप इति वाच्यम् । अलोपानुगुण्येनैव सूत्रार्थनिर्वाहेऽन्यथावर्णनस्यानुचितत्वात् । जयादि प्रतिपद्यत इत्यनेनैव कृत्स्नोत्तरतन्त्रप्राप्तौ स्विष्टकृद्ग्रहणमाघारवत्त[१]न्त्रे वारुण्यादिहोमाभावेऽपि स्विष्टकृद्धोमो भवत्येवेतिज्ञापनार्थम् । अन्तं कृत्वेति वचनमसति विशेषविधौ स्विष्टकृदनन्तरमेव कर्मसमाप्तिर्यथा स्यात्, न तु कृत्स्नसमाप्त्यनन्तरमितिज्ञापनार्थम् । उपनयने समिदभ्याधानानन्तरमुत्तरपरिषेकस्य विहितत्वाद्विशेषविधिसत्त्वमेवेति तत्रैवं न भवति । काण्डव्रतोपाकरणविसर्गादिषु तु विशेषविध्यभावात्स्विष्टकृदनन्तरमेव कर्मसमाप्तिरिति । क्षम्य, अध्ययनाद्विरम्येत्यर्थः । यथाध्यायमितिवचनं कृतान्तादारभ्यैवाध्येतव्यं न पुनरादितस्त्रीननुवाकानधीत्याध्येतव्यमित्येतदर्थम् । वदन्तीतिवचनं केषांचिदाचार्याणां मते त्रीननुवाकानधीत्यैवाध्ययनमस्तीतिपक्षान्तरसूचनार्थम् ।

 ब्रह्मचारिविषये विशेष उक्तः कालादर्शे कार्ष्णाजिनिना[२]--

"मौञ्जीं यज्ञोपवीतं च नवं दण्डं च धारयेत् ।
कटिसूत्रं चैव नवं नवं वस्त्रं तथैव च" इति ॥

स्मृत्यन्तरेऽपि--

"दण्डाजिनोपवीतानि मेखलां कटिसूत्रकम् ।
धृत्वोपाकरणं कृत्वा ततः स्वाध्यायमारभेत् ॥
पुराणानि विसृज्याथ पुनः पुनरुपक्रमेत्" इति ॥

 स्मृतिभामत्यां व्यासोऽपि--

"उपवीतं नवं वस्त्रं कटिसूत्रं च मेखलाम् ।
धारयेदजिनं दण्डं पुराणान्यप्सु निक्षिपेत्" इति ॥

 यज्ञोपवीतस्य होमदानधारणान्याह गालवः--

"कृत्वा यज्ञोपवीतानि नवानि वसुधाधिप ।
हुत्वाऽग्नौ गुरवे दत्त्वा पितृभ्यो धारयेत्स्वयम्" इति ॥

 सत्यव्रतोऽपि--"नूतनान्युपवीतानि हुत्वा दत्त्वा च धारयेत्" इति ।


१४५
 
  1. ङ. तन्त्रेऽविहितत्वेन वा ।
  2. ङ. ना ब्रह्मचारिणं प्रकृत्य--मी ।