पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११४६
[उपाकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--

 इति मदनपारिजातोदाहृतवचनेन च निषेधाद्धस्ते कार्यम् । तत्रापि दोषसत्त्वे प्रौष्ठपद्यां, तत्रापि प्रतिबन्धसद्भावे भाद्रपदान्तर्गतहस्ते कार्यम् ।

 अत्र विशेषो गार्ग्येणोक्तः--

"यद्यर्धरात्रादर्वाक्तु ग्रहः संक्रम एव वा ।
नोपाकर्म तदा कुर्याच्छ्रावण्यां श्रवणेऽपि वा" इति ॥

 अत्र श्रावणीग्रहणं हस्ताप्रोष्ठपद्युपलक्षणम् ।

 कात्यायनवृद्धमनू अपि--

"अर्धरात्रादधस्ताच्चेत्संक्रान्तिर्ग्रहणं तदा ।
उपाकर्म न कुर्वीत परतश्चेन्न दोषभाक्" इति[१]

 अर्धरात्रादधः प्रतिपदि संक्रान्तिसत्त्वे तु नैवोपाकर्मनिषेधः ।

"ग्रहसंक्रान्त्ययुक्तेषु हस्तश्रवणपर्वसु" इतिवचनात् ।

 यदा तु श्रावणोऽधिको भवति तदा शुद्धे श्रावणमास एव कर्तव्यम् ।

 तथा च कात्यायनः--

"उत्कर्षः कालवृद्धौ स्यादुपाकर्मादिकर्मणि ।
अभिषेकादिवृद्धीनां न तूत्कर्षो युगादिषु" इति ॥

ज्योतिष्पराशरोऽपि--

"उपाकर्म तथोत्सर्गः प्रसवाहोत्सवाष्टकाः ।
मासवृद्धौ परे कार्या वर्जयित्वा तु पैतृकम्" इति ॥

 यत्तु ऋष्यशृङ्गवचनम्

"दशहरासु नोत्कर्षश्चतुर्ष्वपि युगादिषु ।
उपाकर्मणि चोत्सर्गे" इति, तच्छन्दोगविषयं,

 तेषां सिंहार्क एवोक्तेः ।

"वेदोपाकरणे प्राप्ते कुलीरे संस्थिते रवौ ।
उपाकर्म न कर्तव्यं कर्तव्यं सिंहयुक्तके" इति,

([२] बृहस्पतिरपि--

"नर्मदोत्तरभागे तु कर्तव्यं सिंहयुक्तके ।
कर्कटे संस्थिते भानावुपाकुर्यात्तु दक्षिणे"

 इति, सामगविषय एव व्यवस्थापके एते वचने । वार्त्रघ्नी पूर्णमासेऽनू


  1. ङ. ति । यदा ।
  2. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--"एतच्च वचनं देशान्तरविषयम् । नर्मदोत्तरभागे तु कर्तव्यं सिंहयुक्तके । कर्कटे संस्थिते भानावुपाकुर्यात्तु दक्षिणे । इति बृहस्पतिवचनादि प्रयोगपारिजाते पराशरमाधवीये च । सामगानां सिंहस्थरवावुक्तेस्तद्विषयमिदमिति केचित्" इति ।