पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अन्वष्टकाश्राद्धप्रयोगः]
११३५
संस्काररत्नमाला ।
( श्रवणाकर्म )
 

 ततो यज्ञोपवीती--शुल्बप्रहरणादि पूर्णपात्रदानान्तं कुर्यात् ।

 ततो हुतशेषं परिविष्यान्नाभिमर्शनादि । मातृपार्वणे मातॄणां क्षेष्ठाः पितामहीनां क्षेष्ठाः प्रपितामहीनां क्षेष्ठा इति यथायथमूहः । अञ्जलिदाने 'एष ते मातर्मधुमा ऊ० तावत्यस्या मात्रा तावानस्या महिमा तावतीमेनां भूतां द[१]दामि० मह्यं मात्रेऽक्षितोऽनुपदस्तः स्वधा भवतां ता स्वधामक्षितां तैः सहोपजीवामुकद ऋचस्ते महिमा' 'एष ते पितामहि म० तावत्यस्या मात्रा तावानस्या महिमा तावतीमेनां भूतां ददा० मह्यं पितामह्या अक्षि० भवतां ता स्वधामक्षितां० जीवामुकदे यजू षि ते महिमा' 'एष ते प्रपितामहि म० तावत्यस्या मात्रा तावानस्या महिमा तावतीमेनां भूतां ददा० मह्यं प्रपितामह्या अक्षि० भवतां ता स्वधा मक्षिता० वामुकदे सामानि ते महिमा' इत्यूहेनाञ्जलिदानम् । 'परा यात पितरः०' 'अथान्वष्टकायां(?) पुनरायात० सुवीराः' इत्युदपात्रमुपप्रवर्तयति । नैतदिति मातृदत्तवैजयन्तीकारौ । अन्यत्सर्वं मासिकवत् । अत्रान्त एव तर्पणं पार्वणत्रयस्य । अत्राष्टम्यनुरोधेन नवमी ग्राह्या । जीवन्मातृकस्य मातृपार्वणलोपः । जीवन्मातामहस्य मातामहपार्वणलोपः । जीवत्पितृकस्य त्वनारम्भ एव । इत्यन्वष्टकाश्राद्धम् ।

 श्राद्धत्रयाशक्तावष्टम्यामेव का[२]र्यम् । अस्याप्यसंभव उदकुम्भदानं हिरण्यदानं च । अस्याप्यसंभवेऽनडुहे यवसं देयम्, लौकिकाग्निना कक्षं दहेद्वा । प्रत्याम्नायान्तरमप्याश्वलायनसूत्रवृत्तिकृतोपन्यस्तम्-- "अपि वा श्राद्धमन्त्रानधीयीत" इति । बुद्ध्यैतस्याप्यकरणे प्राजापत्यम्, अमत्या तूपवासः प्रायश्चित्तम् । दशवारं गायत्र्या जलमभिमन्त्र्य तज्जलं गायत्रीमन्त्रेण दशवारं पिबेत् । अन्ते सर्वस्य पानम् । प्रतिपानं गायत्र्या आवृत्तिः, इति पूर्वेद्युरष्टकान्वष्टकाश्राद्धभोक्तुः प्रायश्चित्तम् । इति सूत्रोक्तानि श्राद्धानि ।

अथ श्रवणाकर्म ।

 तच्च श्रावण्यां पौर्णमास्यां कर्तव्यम् । सर्वाधानी सायमग्निहोत्रानन्तरं दक्षिणाग्निं कर्मार्थमुपसमादधाति । अर्धाधानी सायमग्निहो[३]त्रमौपासनहोमकर्तव्यतापक्षे सायमौपासनहोममपि कृत्वा दक्षिणाग्निमुपसमादधाति । अनाहिताग्निः सायमौपासनहोमानन्तरमौपासनाग्निमुपसमादधाति । तत्र पौर्णमास्यस्त[४]मयप्रभृति प्रकृतकर्मकालव्यापिनी पूर्वैव चेत्सैव ग्राह्या । "कर्मणो यस्य यः


  1. ङ. ददाति ।
  2. ङ. च. कर्तव्यम् ।
  3. ङ. होत्रं सायमौपासनं च हुत्वा दक्षि ।
  4. च. स्तसम ।