पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११३०
[पूर्वेद्युःश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
( पूर्वेद्युःश्राद्धाद्युपयोगिप्रायश्चित्तानि )
 

 ततो यज्ञोपवीती शुल्बप्रहरणादिपूर्णपात्रदानान्तं समाप्य हुतशिष्टमपूपमन्नमाज्यं च मधुना मिश्रयित्वा पृथिवी ते पात्रमित्येतैस्तदभिमृश्य पिण्डार्थमवच्छिद्योदकुम्भं दर्भमुष्टिं चाऽऽदायेत्याद्युपस्थानान्तं पिण्डदानं मासिकवत्कुर्यात् ।

 ततः परिविष्टेषु चान्नेषु हुतशिष्टं परिवि[१]ष्य पृथिवी त इत्याद्यन्नाभिमर्शनादि मासिकवत् । दक्षिणाकाले--अन्नमामं पक्वं वा ददाति यथासंभवं हिरण्यादि च ।

 ततः शेषमनुज्ञाप्योदकदेशं गत्वोदकाञ्जलीन्निनीय प्रत्येत्योदपात्रं प्रवर्तयति ।

 अथ पूर्वेद्युःश्राद्धे पुनरायातेति मन्त्र ऊहः । नोदपात्रोपप्रवर्तनमिति मातृदत्तवैजयन्तीकारौ । पिण्डप्रतिपत्तिर्मासिकवत् । सर्वतः समवदायाशनमन्ते तर्पणम् । इति पूर्वेद्युःश्राद्धम् ।

अथैतदुपयोगिप्रायश्चित्तानि ।

 तत्र कपालभेदनप्रायश्चित्तम् । उपधानात्प्राग्यदि कपालं भिद्यते 'गायत्र्या त्वा शताक्षरया संदधामि' इति तत्संधाय 'अभिन्नो धर्मो जीर० संचरन्ति' [इति]तदभिमन्त्र्य 'भूमिर्भूमिमगात्' इति[२] ब्रह्मणाऽभिमन्त्रणे कृते ब्रह्माभावे स्वयमेवाभिमन्त्र्य तूष्णीमप्सु प्रक्षिप्यान्यत्कपालमानीय तस्य सादनप्रोक्षणे कृत्वा 'धर्मो देवा अप्येतु' इति कपालेष्वपिसृजति ।

 यद्युपधानोत्तरं भिद्येत संघानाद्यप्सु प्रक्षेपान्तं कृत्वाऽन्यदाहृत्य तस्य प्रोक्षणं कृत्वा 'धर्मो देवा अप्येतु' इति मन्त्रेण स्वस्थान उपदध्यात् ।

 उपधानादूर्ध्वं पुरोडाशाधिश्रयणात्पूर्वं यदि कपालं नश्येत्तदाऽऽश्वि[३]नद्यावापृथिव्यचरू कर्तव्यौ । अशक्तौ पूर्णाहुती वा तदैव जुहुयात् । तत एकहायनं वत्सं ब्राह्मणाय दक्षिणां दद्यात् । चरुपूर्णाहुतिकरणाशक्तौ[४] 'या वां कशाम मिक्षत स्वाहा' अश्विभ्यामिदं० । 'मही द्यौः पृथि० मभिः स्वाहा' द्यावापृथिवीभ्यामिदं० । इति द्वे स्रुवाहुती मही द्यौरित्येकामाहुतिं वा स्रुवेण दर्व्या वा हुत्वाऽन्यत्कपालमुपधाय कर्म समापयेत् । पुरोडा[५]शाधिश्रयणानन्तरं भेदने नाशे वा सर्वप्रायश्चित्तमेव न स्थालीपाकादि[६] । नाशशब्देनापहारोऽदर्शनं च । इति कपालभेदनप्रायश्चित्तम् ।


  1. ङ. विष्याम्ना ।
  2. क. च. ति ब्राह्म ।
  3. ङ. श्चिनं चरुं पूर्णाहुतिं वा तदैव कुर्यात् । त ।
  4. ङ. क्तौ मही द्यौरित्येकामा ।
  5. ङ. डाशोद्वासनान ।
  6. ङ. दि । इ ।