पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पूर्वेद्युःश्राद्धप्रयोगः]
११२९
संस्काररत्नमाला ।

"उलूखला ग्रावाणो घोषमकत हविः कृण्वन्तः परिवत्सरीणाम् । एकाष्टके सुप्रजा वीरवन्तो वय स्याम पतयो रयीणा स्वधा नमः" पितृभ्य इदं न मम ।

 पुनरवदाय--"अपूपं देव घृतवन्तमग्ने स्वधावन्तं पितॄणां तर्पणाय । यथातथं वह हव्यमग्ने पुत्रः पितृभ्य आहुतिं जुहोमि स्वधा नमः" पितृभ्य इदं न मम ।

 पुनरवदाय--"अयं चतुःशरावो घृतवानपूपः पयस्वानग्ने रयिमान्पुष्टिमा श्च । प्रतिनन्दन्तु पितरः संविदानाः स्विष्टोऽय सुहुतो ममास्तु स्वधा नमः" पितृभ्य इदं न मम ।

 अथान्नात्पूर्ववदवदाय--"इयमेव सा या प्रथमा व्यौच्छदन्तरस्यां चरति प्रविष्टा । वधूर्जजान नवगज्जनित्री त्रय एतां महिमानः सचन्ते स्वधा नमः" पितृभ्य इदं न मम ।

 पुनस्तथैवावदाय--"एकाष्टका तपसा तप्यमान जजान गर्भं महिमानमिन्द्रम् । तेन दस्यून्व्यसहन्त देवा हन्तासुराणामभवच्छचीभिः स्वधा नमः"पितृभ्य इदं० ।

 पुनस्तथैवावदाय--"या प्रथमा व्यौच्छत्सा धेनुरभवद्यमे । सा नः पयस्वती धुक्ष्वोत्तरामुत्तरा समा स्वधा नमः" पितृभ्य इदं०।

 इति प्रधानाहुतीर्जुहोति । अत्र यद्यपि सूत्र इयमेवेत्यादिषु स्वधाकारस्यापठितत्वान्मन्त्रान्ते नित्यः स्वाहाकार इतिपरिभाषाप्राप्तिस्तथाऽप्यथान्नस्य जुहोतीयमेव सा येत्यत्रत्येनाथशब्देनावदानादिधर्माणामिव स्वधा नमस्कारप्रदानरूपधर्मस्यापि प्रापणात् ।

 ([१] तत:--'सोमाय पितृमते स्वधा नमः' इत्याद्याः षोडशाऽऽज्याहुतीः षोडश तिस्रो वाऽन्नाहुतीरन्वाधानोत्कीर्तनानुसारेण मातामहपार्वणार्थं जुहुयात् । न वा प्राकृताहुतयः ।) ततोऽपूपमन्नं च लौकिकेनाऽऽज्येन सं[२]युत्य दर्व्यामुपस्तीर्य तस्मादपूपादन्नाच्च सकृत्सत्कृत्समवदायाभिघार्य-- 'अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः' इतीशान्यां प्राचीनावीत्येव जुहोति । अग्नये कव्यवाहनाय स्विष्टकृत इदं० ।

 अत्राथशब्दानुवर्तनाद्वारुण्यादीनामभावः । समवदायेतिशब्दात्पूर्ववत्सहैव दर्व्यां निधानम् ।


१४२
 
  1. धनुश्चिह्नान्तर्गतं त्रुटितं ङ. पुस्तके ।
  2. च. संयुज्य ।