पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११२४
[माध्यावर्षश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

सर्वथा विप्रालाभे किंचिदन्नमुद्धृत्य पितृभ्य इदमन्नं स्वधा न ममेति पित्रुद्देशेन त्यक्त्वा गोभ्यो दद्यात् । गवामलाभेऽग्नौ प्रक्षिपेत् । ([१] यस्मिन्दिने पितुरमावास्यानान्दीमुखश्राद्धादिकं पतेत्तदा पित्रादीनां तृप्तत्वात्तत्र नित्यश्राद्धं न कर्तव्यं, पत्न्यादिसांवत्सरिकादिष्वेता) नेष्टा नित्यश्राद्धदेवतास्तत्र कर्तव्यमिति व्यवस्था ज्ञेया ।

इति संस्काररत्नमालायां मासिश्राद्धम् ॥
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिगणेशदीक्षि-
ततनूजभट्टगोपीनाथदीक्षितविरचितायाः सत्याषाढ-
हिरण्यकेशिस्मार्तसंस्काररत्नमालाया उत्तरार्धे
नवमं प्रकरणम् ॥ ९ ॥

अथ दशमं प्रकरणम् ।

अथ माध्यावर्षश्राद्धम् ।

 तत्र गृह्यम्-- एतेन माध्यावर्षं व्याख्यातं तत्र मा सं नियतं मा साभावे शाकम्' इति । मा(म?)ध्यावर्षः प्रो(प्रौ)ष्ठपदो मासः । तत्र यच्छ्राद्धं ([२] तन्माध्यावर्षश्राद्धमिति मातृदत्तः । अत्र तिथिस्तु महालयपक्षान्तर्गता या काचिद्ग्राह्या । अथवोपस्थितत्वान्महालयप्रतिपदेव । वर्षस्य मध्यं मध्यावर्षं तत्र भवं माध्यावर्षमित्येव व्युत्पत्तिः । तथा च--आश्विनशुक्लप्रतिपदि मा[३]ध्यावर्षं भवति तस्या वर्षमध्यवर्तित्वात् । यद्यपि-- 'एतेन माध्यावर्षं व्याख्यातम्' इति सूत्रेणामावास्याया अप्यतिदेशात्तत्रैव कर्तव्यता प्रतीयते तथाऽपि श्राद्धद्वयेनामावास्यापराह्णस्यावरुद्धत्वेन तत्र कर्तुमशक्यत्वान्मासिकश्रा[४]द्धदिवस आरम्भमात्रं द्वितीयदिवसे श्राद्धमित्येवानायत्त्या स्वीकार्यम् ।

 न च मासिकश्राद्ध[५]माध्यावर्षयोस्तन्त्रेणैवानुष्ठानमस्त्विति वाच्यम् । तथा सति मासिकश्राद्धमाध्यावर्षयोः सर्वदा कालैक्यात्तन्त्रेणेवानुष्ठानापत्तेः । न


  1. धनश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--"यत्रामावास्यानान्दीमुखश्राद्धादिषु नित्यश्राद्धदेवता इष्टा भवन्ति न तत्र नित्यश्राद्धं कर्तव्यम् । यत्र च सांवत्सरिकादिषु" इति ।
  2. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके विद्यमानो ग्रन्थो यथा--"तन्माध्यावर्षे श्राद्धं तन्मासिकश्राद्धवत्कर्तव्यम्" इति ।
  3. क. माध्यव ।
  4. च. श्राद्धादिदि ।
  5. च. द्धमध्या ।