पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[नित्यश्राद्धप्रयोगः]
११२३
संस्काररत्नमाला ।

मातामहस्तत्पिता च प्रमातामहकस्तथा ।
एते भवन्तु सुप्रीताः प्रयच्छन्तु च मङ्गलम्"

 इति विप्रान्वदेत् । विप्रा मात्रादयः सुप्रीता मङ्गलं प्रयच्छन्त्विति प्रतिब्रूयुः, तत्तत्पार्वणाद्यजीवनवशेन यस्य कस्यचित्पार्वणस्य लोपे[१] तत्तत्पार्वणविषयकश्लोकैकदेशलोपः । केवलमातृपार्वणकरणे--एता भवन्तु[२] सुप्रीता इत्यूहः । देवा अप्यत्र न कार्याः । तत इडामग्ने० इत्यनेन मन्त्रेणाऽऽचारात्पात्रेण किंचिद्द्रव्यं संघट्टयेत् ।

 ततोऽद्य मे सफलमित्यादि यस्य स्मृत्येत्येतदन्तं कृत्वा, अनेन नान्दीश्राद्धाख्येन कर्मणा परमेश्वरः प्रीयतां न ममेति कर्म समर्प्य विष्णुं संस्मृत्य पवित्रे विसृज्याऽऽचम्य मातॄर्विसर्जयेत्[३] । निरग्निकस्य पिण्डदानाकरणकल्पे सांकल्पिकविधिः ।

 अत्र वैश्वदेव आदावन्ते वा कार्यः । यदाऽऽदौ तदा पाकान्तरेणैव कार्यः[४] । विवाहोपनयनाङ्गभूते नान्दीश्राद्धे तु सायंवैश्वदेवोऽपि प्रातरेव कर्तव्य इति केचित् । ( [५] नात्र तर्पणम् । न च ब्रह्मचर्यादिनियमाः । ) इति वृद्धिश्राद्धप्रयोगः ।

अथ नित्यश्राद्धप्रयोगः ।

 आचम्य प्राणानायम्य देशकालौ संकीर्त्य, अस्मत्पितृपितामहप्रपितामहानां शर्मणां गोत्राणां वसु० सपत्नीकानाम्, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानां शर्मणां गो० व० सपत्नीकानां तृप्त्यर्थं[६] नित्यश्राद्धं करिष्य इति संकल्प्य, आसने तत्तद्वर्गोद्देशेन विप्रद्वयमेकं वोपवेश्य गन्धादिभिः संपूज्य[७], इदं परिविष्टं परिवेक्ष्यमाणं सोपस्करमन्नं पितृपितामहप्रपितामहानां सपत्नीकानामा तृप्तेः स्वधा संपद्यतां कव्यं न ममेत्यान्नं निवेदयेत् । एवं मातामहवर्गे । विप्रभोजनोत्तरं यथासंभवं दक्षिणां दत्त्वा नमस्कृत्य विसर्जयेत् । नात्र ब्रह्मचर्यादिनियमाः । न तर्पणं न विश्वे देवाः । दक्षिणादाने विकल्पः । अत्र


  1. ङ. पे तु तत्पा ।
  2. ङ. न्तु मे प्री ।
  3. ङ. त् । अ ।
  4. ङ. र्थः । ना ।
  5. धनुश्चिह्नान्तर्गतग्रन्थस्थाने क. ङ. पुस्तकयोर्विद्यमानो ग्रन्थो यथा--"न च ब्रह्मचर्यादिनियमाः । अत्र तर्पणे विशेषः । पितरं नान्दीमुखं तर्पयामि पितामहं नान्दीमुखं तर्पयामीत्येवं केवलं तर्पणं न नामग्रहणं न प्राचीनावीतम् । तर्पणाभाव एव वा ।
  6. च र्थे श्रा ।
  7. अत्र क. पुस्तकटिप्पण्यां गायत्र्याऽम्नं प्रोक्ष्येति वर्तते ।