पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१११६
[घृतश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
( दधिश्राद्धयुगाद्यादिश्राद्धयोः प्रयोगः )
 

षदिग्बन्धावप्यत्र न स्त इति केचित् । अत्राग्नौकरणं कृताकृतम् । तत्र करणपक्षेऽग्नावेव होमः । पिण्डांस्तु तीर्थजल एव क्षिपेत्[१] । महालयपदस्थाने तीर्थश्राद्धपदोच्चारणम् । एवं गयाश्राद्धादावपि यथायथमूहो द्रष्टव्यः । इति तीर्थश्राद्धप्रयोगः ।

अथ यात्रागमनकाले घृतश्राद्धप्रयोगः ।

 उक्तापराह्णे[२] श्रौताग्निमान्स्मार्ताग्निमान्वा चेत्पृथक्पाकेन वैश्वदेवं कृत्वा तिलतर्पणं विधाय देशकालकीर्तनान्ते महालयवत्पितॄनुद्दिश्यामुकतीर्थयात्रां कर्तुमादौ तदङ्गत्वेन विहितं समस्तपितॄनुद्दिश्य घृतश्राद्धं करिष्य इति संकल्प्य क्षणाद्यर्घ्यावाहनवर्जं परिवेषणान्तं कुर्यात् ।

 [३]ग्नौकरणं कृताकृतम् । करणपक्षे घृतेनाग्नौकरणं तस्यैव मुख्यत्वात् ।

 अत्र पात्रे घनीभूतं घृतं प्रधानं भक्ष्यभोज्यादिकं व्यञ्जनत्वेनेति द्रष्टव्यम् । अन्नशब्दस्थाने घृतशब्दप्रयोगो दाने कार्यः । अन्यत्सर्वं तीर्थश्राद्धवत् ।

 [४]तोऽनाहिताग्निश्चेद्वैश्वदेवं कृत्वा बन्धून्संभोज्य घृतशेषमादाय ग्रामं प्रदक्षिणीकृत्य कोशमात्रं गत्वा तत्र पाकं विधाय सर्वस्मादन्नात्किंचित्किंचिद्ग्रासमात्रमवदाय घृतप्लुतमग्नौ किंचित्प्रक्षि[५]प्याऽऽनीतश्राद्धशिष्टघृतेन सह भोजनं कुर्यात् । इति यात्रारम्भे घृतश्राद्धम् ।

अथ यात्रोत्तरश्राद्धम् ।

 यात्रां कृत्वा गृहप्रवेशे श्राद्धं पूर्वोक्तवत्सर्वं कुर्यात् । तत्र सर्वान्पितॄनुच्चार्यामुकती[६]र्थप्रत्यागमननिमित्तं घृतश्राद्धं करिष्य इति संकल्पवाक्ये विशेषः । अन्यत्समानम् । केचिद्दधिश्राद्धमित्याहुः । तत्पक्षे दधिश्राद्धं करिष्य इति संकल्पः । प्राधान्यं दध्न इतरद्व्यञ्जनत्वेनेति । इति यात्रोत्तरश्राद्धम् ।

अथ युगा[द्या]दिश्राद्धप्रयोगः ।

 [७]क्तापरा[८]ह्णे श्रौताग्निमान्स्मार्ताग्निमान्वा चेद्वैश्वदेवं कृत्वा सपत्नीकपितृवर्गस्य सपत्नीकमातामहवर्गस्य च तिलतर्पणं कृत्वा देशकालकीर्तनान्ते पुरूरवार्द्रव० प्राचीनावीती--अस्मत्पितृपितामहप्रपितामहानाममुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानाम्, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानाममुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानां युगा


  1. ङ. त् । इ ।
  2. ङ. ह्णे ति ।
  3. ङ. अत्र ।
  4. क. च. ततो व ।
  5. ङ. पूर्वानी ।
  6. च. तीर्थात्प्रत्या ।
  7. ङ. च. उक्तदिनेऽप ।
  8. ङ. राह्न आहिताग्निश्चेद्वै ।