तरः सो० । [१] मा० पितृव्याः[२] सो० । मन्त्रेषु सपत्नीकशब्दस्य न प्रयोगः किं त्वभिध्यानमात्रम् । एवं सर्वत्र । पितृव्यपत्न्याः पृथक्पक्षे--[मा०] पितृव्यपत्न्यः सो० । मा० मातुलाः[३] सो० । पृथक्पक्षे--मा० मातुलपत्न्यः सो० । मा० भ्रातरः[४] सो० । पृथक्पक्षे--मा० भ्रातृपत्न्यः सो० । मा० पितृभगिन्यः सो० । मा० मातृभगिन्यः सो० । मा० आत्मभगिन्यः सो० । मा० श्वशुराः सो० । मा० गुरवः सो० । मा० शिष्याः सो० । मा० आप्ताः सो० । सपत्नीकत्वसभर्तृकत्वसापत्यत्वविशेषणा[५]भिध्यानं संभवानुसारेण क[६]र्तव्यम् । एवमग्रेऽपि यथायथमूहो योज्यः । सर्वेऽपि पिण्डा आग्नेय्यपवर्गा दक्षिणापवर्गा वा रेखालेखनानुसारेण देयाः ।
ततः-- 'आ ब्रह्मणो० तेभ्यः स्वधा पिण्डमहं ददामि ॥ १ ॥ पितृवंशे मृता० इमं पिण्डं ददाम्यहम् ॥ २ ॥ असिपत्रे० ददाम्यहम् ॥ ३ ॥ उच्छिन्नकु० ह्यक्षय्यमुपतिष्ठतु ॥ ४ ॥' इति चतुर्भिश्चतुर इतरान्मन्त्रलिङ्गोक्तान्पितॄनुदिश्याऽऽप्तपिण्डस्य पुरस्ताद्दद्यात् । पिण्डदान आञ्जनाभ्यञ्जनयोश्च संबुद्ध्यन्तानि नामानि ।
तत आपो देवीरित्यादि यथायथमूहेन सकृदाच्छिन्नप्रहरणान्तं कुर्यात् ।
अत्रापि पत्नीकर्तृकं पिण्डप्राशनं कृताकृतम् । करणपक्षे वर्गचतुष्टयमध्यपिण्डप्राशनमिति विशेषः । ततः शिवा आपः सन्त्वित्यादि समानम् । सकृन्महालये परेद्युः सर्वान्पितॄंस्तिलोदकेन तर्पयेत् । इतरत्र तु तदहरेवानुव्रज्यानन्तरम् । इति महालयश्राद्धप्रयोगः ।
अथ विधवाकर्तृकश्राद्धप्रयोगः ।
अस्मद्भर्तृ[७]सपत्नीकतत्पितृतत्पितॄणां शर्मणां गो० व० । अस्मत्पितृपितामहप्रपितामहानां शर्मणां गो० व० । अस्मन्मातृपितामहीप्रपितामहीनां दानां गो० व० । अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानां शर्मणां गो० व० सपत्नीकानामित्युत्कीर्त्य महालयश्राद्धं करिष्य इति संकल्पं कुर्यात् । विभवे सति भर्तृपार्वणोत्तरं श्वश्रूत[८]च्छ्वश्र्वोर्दयोर्गोत्रयोर्वसुरुद्रस्वरूपयोः, इत्येवं पृथक्पृथगेकोद्दिष्टवद्वा[९] संकीर्त्य मातामहो(हपार्वणो)त्तरं मातामहीपार्वणं च संकीर्तयेत्[१०] ।