पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१११०
[महालयश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

तु--अस्मत्पितृव्यपत्न्याः, दायाः, गोत्रायाः, वसुरूपायाः । अस्मन्मातुलस्य शर्मणो गोत्रस्य व० सपत्नीकस्य । त[१]त्पत्न्याः पृथगुद्देशे तु--अस्मन्मातुलपत्न्याः, दायाः, गोत्रायाः व० । अस्मद्भ्रातुः शर्मणो गो० व० सप० । तत्पत्न्याः पृथगुद्देशे तु--अस्मद्भ्रातृपत्न्याः, दा० गो० व० । अस्मत्पितृभगिन्याः, दायाः, गोत्रायाः व० सभर्तृकायाः सापत्यायाः । अस्मन्मातृभगिन्याः, दा० गो० व० सभ० साप० । अस्मदात्मभगिन्याः, दा० गो० व० सभ० साप० । अस्मच्छ्वशुरस्य शर्मणो गो० व० सप० सापत्यस्य । अस्मद्गुरोः शर्मणो गो० व० सप० सापत्यस्य । अस्मच्छिष्यस्य शर्मणो गो० वसु० सप० । अस्मदाप्तस्य शर्मणो गो० वसु० सप० । एतेषां तृप्त्यर्थं महालयापरपक्षिकं श्राद्धं यथायथं पार्वणैकोद्दिष्टेन विधिनाऽन्नेन हवि[२]षाऽद्य करिष्य इति संकल्पं कुर्यात् । सकृत्करणे सकृन्महालयापरपक्षिकश्राद्धमित्यूहः ।

 अत्र सपत्नीकसापत्यत्वविशेषणयोर्यथायोग्यं प्रयोगः कार्यः । एवमग्रेऽपि ।

 ततः--( [३] पुरूरवसंज्ञकविश्वदेवार्थमेकमार्द्रवसंज्ञकविश्वदेवार्थमेकमित्येवं विप्रद्वयं निमन्त्रयेत् । एकमेव वा । अस्मिन्पक्षे सहैवोत्कीर्तनम् । )

 प्राचीनावीती--पितृवर्गार्थं विप्रत्रयमेकं वा मातृवर्गार्थं विप्रत्रयमेकं वा सापत्नमात्रर्थमेकं मातामहवर्गार्थं विप्रत्रयमेकं वा मातामहीवर्गार्थं विप्रत्रयमेकं वा ([४] पत्न्याद्याप्तान्ता या व्यक्तयो यावत्संख्याकास्तावत्संख्यान्विप्रान्निमन्त्रयेत् ।

 यदा द्वावेव विप्रौ लभ्येते तदैको देवस्थान एकः पितृस्थाने । यदा तु त्रयस्तदैको देवस्थान एकः पार्वणेषु सापत्नमातरि च । एकः पत्न्यादीनां


  1. क. तस्य प ।
  2. च. विषा सद्यः क ।
  3. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--"अस्मिन्महालयश्राद्धे वर्गचतुष्टयार्थं धुरिसंज्ञकविश्वे(श्व)देवार्थं त्वया क्षणः करणीयः । लोचनसंज्ञकविश्वे(श्व) देवार्थं त्वया क्षणः करणीयः । इति यथायथं द्वौ विप्रौ निमन्त्रयेत् । एकपक्षे धुरिलोचनसंज्ञकविश्वे(श्व)देवार्थमिति सहैवोत्कीर्त्य निमन्त्रयेत्" इति ।
  4. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--"पत्न्यर्थं पुत्रार्थं दुहित्रर्थं पितृव्यार्थं पितृव्यपत्न्याः पृथगुद्देशे तदर्थं मातुलार्थं मातुलपत्न्याः पृथगुद्देशे तदर्थं भ्रात्रर्थं भ्रातृपत्न्याः पृथगुद्देशे तदर्थं पितृभगिन्यर्थं मातृभगिन्यर्थमात्मभगिन्यर्थं श्वशुरार्थं गुर्वर्थं शिष्यार्थमाप्तार्थं चैकैकं विप्रं निमन्त्रयेत् । यदि त्वेकोद्दिष्टार्थं चत्वार एव विप्रास्तदैकः पत्नीस्थाने द्वितीयः पुत्रदुहितृस्थाने तृतीयः पितृव्यात्मभगिन्यन्तानां स्थाने चतुर्थः श्वशुराद्याप्तान्तानां स्थाने । यदि द्वौ तदा पत्न्याः स्थान एको द्वितीयोऽवशिष्टस्थाने । यद्येकस्तदा पत्न्यादीन्सर्वेपितॄंस्तत्रैव" इति ।