पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[महालयश्राद्धप्रयोगः]
११०९
संस्काररत्नमाला ।

इति ब्रूयात् । इति विप्रत्रयमेकं वा निमन्त्रयेत् । विप्रैकत्वपक्षे धुरिलोचनसंज्ञकानां विश्वेषां देवानामिति देवविप्रनिमन्त्रणे तत्तत्कर्मणि तत्तद्विभक्त्योहः । अस्मत्प्रपितामह[१]पितृपितामहप्रपितामहानां शर्मणां गोत्राणां वसुरुद्रादित्यस्वरूपाणामित्यादि[:] पितृकर्मणि तत्तद्विभक्त्योहः । "मार्जयन्तां प्रपितामह [२] पितरः सोम्यासो मार्जयन्तां प्रपितामहपितामहाः सोम्यासो मार्जयन्तां प्रपितामहप्रपितामहाः सोम्यासः । एतत्ते प्रपितामहपितरमुकशर्मन्ये च त्वामनु । एतत्ते प्रपितामहपितामहामुकशर्मन्ये च त्वामनु । एतत्ते प्रपितामहप्रपितामहामुशर्मन्ये च त्वा मनु । आङ्क्ष्व प्रपितामहपितरमुकशर्मन् । आङ्क्ष्व प्रपितामहपितामहामुकशर्मन् । आङ्क्ष्व प्रपितामहपितामहामुकशर्मन् । अभ्यङ्क्ष्व प्रपितामहपितरमुकशर्मन् । अभ्यङ्क्ष्व प्रपितामहपितामहामुकशर्मन् । अभ्यङ्क्ष्व प्रपितामहप्रपितामहामुकशर्मन्" इति मन्त्रेषूहः । नात्र चतुर्थः पि[३]ण्डो लेपमार्जनं वा । अन्यत्सर्वं दर्शश्राद्धवत् । इति प्रोष्ठपदीश्राद्धप्रयोगः ।

अथ महालयप्रयोगः ।

 प्रोष्ठपदीश्राद्धोत्तरं प्रतिपदादि[४] पञ्चाम्या[५]द्यष्टम्यादि दशम्यादि वा[६] चतुर्द[शीवर्जं द]र्शान्तमहरहः श्राद्धं दर्शवत्कुर्यात्[७] । प्रतिपदादिदर्शान्तपक्षे न चतुर्दशीनिषेधः । एवं करणाशक्तौ मरणदिव[८]समात्रे कार्यम् । चतुर्दश्यां मृतौ[९] तन्महालयश्राद्धममावास्यायां कर्तव्यम् । एवं पौर्णमास्यां[१०] मृतस्यापि[११] । अपराह्णे श्रौताग्निमान्गृह्याग्निमान्वा कृतवैश्वदेवो देशकालकीर्तनान्ते पुरूरवार्द्रवसंज्ञकानां विश्वेषां देवानामित्युक्त्वा प्राचीनावीती--अस्मत्पितृपितामहप्रपितामहानां शर्मणां गोत्राणां वसुरुद्रादित्यस्वरूपाणाम् । अस्मन्मातृपितामहीप्रपितामहीनां गोत्राणां दानां वसुरुद्रादित्यस्वरूपाणाम् । अस्मत्सापत्नमातुः, दाया गोत्राया वसुरूपायाः । अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानां शर्मणां गोत्राणां वसु० । अस्मन्मातामहीमातुःपितामहीमातुःप्रपितामहीनां दानां गोत्राणां वसु० । अस्मत्पत्न्याः, दायाः, गोत्रायाः, वसुरू० । अस्मत्पुत्रस्य शर्मणो गोत्रस्य वसुरूपस्य । अस्मद्दुहितुः, दायाः, गोत्रायाः, वसुरू० । अस्मत्पितृव्यस्य शर्मणो गोत्रस्य व० सपत्नीकस्य । तत्पत्न्याः पृथगुद्देशे


  1. ङ. हस्य पि ।
  2. ङ. पुस्तके प्रपितामहस्य पितर इत्यादि व्यस्तमेवात्राग्रेऽपि ।
  3. क. ङ. पिण्डले ।
  4. ङ. दिदर्शान्तं पञ्चम्यादि वा चतुर्दशीवर्जे दर्शा ।
  5. च. म्यादि ।
  6. क. वा दर्शा ।
  7. ङ. त् । ए ।
  8. ङ. वसे का ।
  9. ङ. तौ तु तदीयश्रा ।
  10. ङ. स्यां मरणेऽपि ।
  11. ङ. पि । उक्तापराह्ण आहिताग्निश्चेत्कृत ।