पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११०४
[हिरण्यश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
(आब्दिकश्राद्धम्)
 

ग्न्युपस्थानान्तं कृत्वाऽतिप्रणीताग्निमेलनादि सकृदाच्छिन्नप्रहरणान्तं कुर्यात् । 'नमो वः पितरो रसाय' इत्यत्राऽऽमायेत्यूहः । अङ्गुष्ठनिवेशनं यथासुखं जुषध्वमितिवचनमपोशा(मापोश)नं तृप्तिप्रश्नश्च न । ततः शिवा आपः सन्त्वित्यादि यद्दत्तममुकश्राद्धीयमाममुदकादि तदक्षय्यमस्त्विति भवन्तो ब्रुवन्त्वित्यक्षय्य ऊहः । वाजे वाज इत्यस्मिन्मन्त्रे मादयध्वं [१]तर्प्स्यथ यात पथिभिरित्यूहः । अन्यत्सर्वं प्रकृतिवत्[२] । विधुरादिश्चेदत्र वैश्वदेवं कुर्यात् ।

अथाऽऽमाभावे हिरण्यश्राद्धप्रयोगः ।

 दर्शे प्रातः कृतनित्यक्रियो देशकालकथनान्ते वर्गद्वयस्य षष्ठ्यन्तमुत्कीर्तनं कृत्वा दर्शश्राद्धं हिरण्येन सांकल्पविधिना करिष्य इति संकल्प्य पूर्वोक्तसांकल्पिकामश्राद्धवत्सर्वं कुर्यात् । अत्र पिण्डदाने विकल्पः । 'नमो वः पितरो रसाय' इत्यत्र हिरण्यायेत्यूहः । अत्र श्राद्धोत्तरं तत्काल एव तिलतर्पणं कृत्वा काले वैश्वदेवादि कृत्वा भुञ्जीत । इति हिरण्यश्राद्धप्रयोगः ।

अथाऽऽब्दिकश्राद्धम् ।

 तत्र पितृमृताहे पितृपिताम[३]हप्रपितामहांस्त्रीनुद्दिश्य पार्वणविधिना श्राद्धं कुर्यात् । मातृमृताहे मातृपितामहीप्रपितामहीरुद्दिश्य कुर्यात् । सापत्नमातृमृताहे सा चेदपुत्रा तस्या अप्येकोद्दिष्टविधिना । तथाऽपुत्रमातामहस्य तन्मृताहे तद्वर्गमात्रस्य । एवं मातामह्यास्तन्मृताहे तद्वर्गमात्रस्य । तथाऽपुत्रपितृव्यमातुलभ्रातॄणां मृताहे तस्य तस्यैकोद्दिष्टविधिना । त[४]त्रायं प्रयोगः--मृ[५]तदिने कृतनित्यक्रि[६]यः श्रौताग्निमान्स्मार्ताग्निमान्वा चेत्कृतवैश्वदेवो देशकालकीर्तनान्ते--अस्मत्पितृपितामहप्रपितामहानां शर्मणां गोत्राणां वसुरुद्रादित्यस्वरूपाणामाब्दिकश्राद्धं पार्वणविधि[७]नाऽद्य करिष्य इतिसंकल्पपूर्वकं दर्शश्राद्धोक्तविधिना तद्वर्गमात्रस्यैव कुर्यात् । अस्मिञ्श्राद्धदिने नित्यतर्पणं तिलरहितं कार्यम् । श्राद्धाङ्गतर्पणं तु परेद्युः[८] स्नानं प्रातःसंध्यां च कृत्वा सतिलमेव[९] । श्राद्धेज्यवर्गस्य तिलतर्पणं कृत्वा पुनः सर्वकर्मार्थं स्नानं कृत्वा ब्रह्मयज्ञादि कुर्यात् । एवं मात्रादीनामपि तत्तन्मृताहदिने श्राद्धं कृत्वा श्वोभूते प्रातः स्नात्वा संध्यां च


  1. अत्र क. पुस्तकटिप्पण्याम् "मूले तृप्ता इत्यस्य सुबन्तत्वात्तर्प्स्यन्त इति सुबन्ततयैवोहस्य न्याय्यत्वेन तिङन्तपदोहश्चिन्त्य एव । तेन तर्प्स्यन्तो यात पथिभिरित्येवोहः साधुः" । इत्येवं लिखितमस्ति ।
  2. ङ. त् । अनाहिताग्निश्रे ।
  3. च. महानु ।
  4. च. अत्रायं ।
  5. ङ. तद्दिने ।
  6. ङ. क्रिय आहिताग्निश्चेत्कृ ।
  7. च. धिना सद्यः क ।
  8. ङ. द्युः स ।
  9. ङ. व । ए ।