पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[आमश्राद्धप्रयोगः]
११०३
संस्काररत्नमाला ।

भुञ्जीयुः । भोजनान्ते तृप्तिप्रश्नं कृत्वा मधुमतीरक्षन्नमीमदन्तेति च श्रावयित्वा संपन्नप्रश्नं कृत्वा शेषमन्नं किं क्रियतामित्याद्युच्छिष्टभाग्भ्योऽन्नदापनान्तं कृत्वाऽऽचान्तेषु विप्रेषु शिवा आपः सन्त्वित्यादिभिर्जलादि दत्त्वा तिलोदकयवोदकाभ्यामक्षय्यं यथायथं प्रदाय ताम्बूलदक्षिणे दत्वा 'अघोराः पितरः सन्तु' इत्यादि । नात्रोच्छिष्टपिण्डपिण्डदाने । न चात्र स्वधा संपद्यतामिति भवन्तो ब्रुवन्त्विति स्वधोच्यतामिति च स्वधावाचनम् । ततो वाजे वाज इत्यादि, कर्मण ईश्वरार्पणान्ते संकल्पात्सिद्धिरस्त्विति भवन्तो ब्रुवन्त्विति विप्रान्प्रति वदेत् । तथाऽस्त्विति तैरुक्ते विष्णुं संस्मृत्य पवित्रे ग्रन्थिं विसृज्य त्यक्त्वाऽऽचमनं कृत्वा बन्धुभिः श्राद्धशेषं भुञ्जीत । इत्थमपि करणाशक्तौ संकल्पं कृत्वा देवपितृपूजां विधायान्नत्यागमात्रं कृत्वा भुक्तवद्भ्यस्ताम्बूलं दक्षिणां च दत्त्वा संकल्पात्सिद्धिरस्त्विति भवन्तो ब्रुवन्त्विति वाचयित्वा कर्मेश्वरायार्पयेत्[१] । वैश्वदेवकालव्यवस्था पूर्ववदेव । इति सांकल्पिकप्रयोगः ।

अथान्नाभावे कर्तव्य आमश्राद्धप्रयोगः ।

 यथाधिकारं प्रातः कृतनित्यक्रियः श्रौताग्निमान्गृह्याग्निमान्वा चेद्येन केनचिद्द्रव्येण कृतवैश्वदेवो वर्गद्वयस्य तिलतर्पणं कृत्वा[२] पूर्वाह्ण एव देशकालकथनान्ते प्राचीनावीती पितृवर्गस्य सपत्नीकस्य मातामहवर्गस्य सपत्नीकस्य षष्ठ्यन्तमुत्कीर्तनं विधाय दर्शश्राद्धमामद्रव्येण करिष्य इति संकल्प्य पूर्ववद्वि[३]श्वदेवार्थं पितृवर्गार्थं मातामहवर्गार्थं च विप्रान्निमन्त्र्य पादप्रक्षालनाद्याच्छादनान्तं पूर्ववत्[४]

 तत्राऽऽवाहनमन्त्र ऊहः कार्यः, यथा--'उशन्तस्त्वा० पितॄन्हविषे स्वी कर्तवे' इति विशेषः । अग्नौकरणकाले सकृदाच्छिन्नच्छेदनादि पिण्डपितृयज्ञवत्तण्डुलाद्यन्यतमेन संप्रदेयेन हविष्यद्रव्येण हुत्वा पात्रेष्वामं द्विगुणं समं वा निधाय गायत्र्या प्रोक्ष्य पृथिवी ते पात्रमित्यादिलोक इत्यन्ते 'विष्णो, आमं रक्षस्व' इत्युक्त्वा पुरूरवसंज्ञकेभ्यो विश्वेभ्यो देवेभ्य इदमामं सोपस्करं स्वाहा न ममेति दद्यात् । एवमार्द्रवसंज्ञकेभ्यो विश्वेभ्यो देवेभ्य इत्यूहेन द्वितीयदेवविप्रे ।

 ततः पितृवर्गे मातामहवर्गे चाऽऽमत्यागं तत्तन्नामाद्यूहेन कुर्यात् । ततो मधुमतीश्रावणं संपन्नप्रश्नं च कृत्वा पूर्ववत्पिण्डदानं कृत्वाऽऽपो देवीरित्याद्य


  1. ङ. त् । अनाहिताग्निश्चेद्विश्वदेवमत्र कुर्यात् ।
  2. ङ. त्वा दे ।
  3. ङ. च. द्विश्वेदे ।
  4. एतदनन्तरं कार्यमिति शेषः ।