पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मासिकश्राद्धप्रयोगः]
१०९३
संस्काररत्नमाला ।

देवा एष वो गन्ध इति द्वितीयदेवविप्रहस्ते पूर्ववदद्यात् । 'ओषधयः प्र० दत्' पुरूरवसंज्ञका विश्वे देवा इ[१]मानि वः पुष्पाणि, इति यथायथमूहेन पुष्पाणि द्विवारं दद्यात् । धूरसीति धूपम् । उद्दीप्यस्वेति दीपम् । युवा सुवासा इति वस्त्रम् । सुगन्धोऽस्तु सु[२]पुष्पाणि सन्तु सुधूपोऽस्तु सुदीपोऽस्तु सुवस्त्रमस्त्विति प्रतिवचनानि । सति संभवेऽन्येऽप्युपचारा देयाः । प्रत्युपचारं जलदानम् । 'ये देवा दिवि' इति देवानुपतिष्ठते । अत्र स्थलत्रयेऽर्घ्यदानमिति भाष्यकारोक्तकल्पे तु न । सर्वस्यार्घ्यार्थमुदकोद्धरणं किं त्वन्तिमार्घ्यदान एव ।

अथ पित्राद्यर्चनम् ।

 कर्ता प्राचीनावीती सव्यं जान्वाच्य, अस्मत्पितुरमुकशर्मणोऽमुकगोत्रस्य वसुरूपस्येदमासन[३]मस्मत्पितामहस्यामुकशर्मणोऽमुकगोत्रस्य रुद्ररूपस्येदमासनमस्मत्प्रपितामहस्यामुकशर्मणोऽमुकगोत्रस्याऽऽदित्यरूपस्येदमासनमित्यूहेन कृतपादशौचानाचान्तान्विप्रान्दक्षिणाग्रेष्वासनेषूदङ्मुखानुपवेशयेत् । एवमूहेन मातामहाद्यर्थविप्रांस्तद्दक्षिणभागे ।

 ततः पूर्वासादितं पित्रर्थमर्घ्यपात्रं पितृविप्रपुरतो दर्भेषु निधाय तस्मिन्प्रज्ञातं निहितमेकदर्भमयं पवित्रं दक्षिणाग्रं निधाय तस्मिन्पात्रे शुद्धोदकमानीय 'तिलोऽसि सोम० नः स्वधा नमः' इति तिलांस्तस्मिन्निक्षिप्य, 'गन्धद्वाराम्' इति गन्धम्, 'ओषधयः प्रति' इति पुष्पाणि च निक्षिप्य तत्पात्रमग्नेर्दक्षिणतो दक्षिणाग्रेषु दर्भेषु निधाय तस्मादर्घ्योदकाद्दैवार्घ्यकल्पानुसारेण किंचित्सर्वं वोद्धृत्य तत्पवित्रं विप्रहस्ते दत्त्वाऽस्मत्पित्रेऽमुकशर्मणेऽमुकगोत्राय वसुरूपायेदमर्घ्यं स्वधा[४] न ममेति पितृविप्रहस्ते पितृतीर्थेन त्रिवारमेकवारं वा दद्यात् । अत्रैवार्घ्यदानपक्षे त्रिवारं स्थलत्रयेऽर्घ्यदानपक्ष एकवारमिति व्यवस्था बोध्या । अस्त्वर्घ्यमिति विप्रः । ततः कर्ता शुद्धोदकं दद्यात् । एवमितरेषु । अस्मत्पितामहायेत्याद्यूहेन तत्तन्नाम्ना रूपेण च मातामहादिषु नामगोत्ररूपोहः । यदि द्वावेव विप्रौ तदा पितृपार्वणस्थानीयविप्रदक्षिणहस्ते त्रिवारं नववारं वा दत्त्वा द्वितीयविप्रदक्षिणहस्ते तथैव दद्यात् । यदि त्वेक एव विप्रस्तदा तस्य हस्ते षड्वारमष्टादशवारं वा देयम् ।

 [५]तो गन्धद्वारामित्यादिपूर्वोक्तैर्मन्त्रैरस्मत्पितरमुकशर्मन्नमुकगोत्र वसुरूपैष गन्ध इमानि पुष्पाणीत्याद्यूहेन गन्धपुष्पधूपदीपवस्त्रादि दद्यात् । पूर्ववत्पति


  1. ङ. इदं वः पुष्पम्, इ ।
  2. ङ. सुपुष्पमस्तु ।
  3. क. नमित्याद्यूहे ।
  4. क. ङ. धा नम इति ।
  5. ङ. च. ततः पूर्वोक्तैरेव मन्त्रैः ।