पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०९२
[मासिकश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

 ततः पुरूरवसंज्ञका विश्वे देवाः समाध्वम्, आर्द्रवसंज्ञका विश्वे देवाः समाध्वमिति देवविप्रावु[१]क्त्वा सुसमास्मह इति ताभ्यां प्रतिवचने दत्त आसनसमीप उपवेश्य प्राचीनावीती पितरमुकशर्मन्नमुकगोत्र वसुरूप समास्स्वेत्याद्यूहेन पित्रादिविप्रानु[२]क्त्वा सुसमास्मह इति प्रतिवचने दत्त आसनसमीप उपवेशयेत् ।

 ततो यज्ञोपवीती पाकस्य पूजोपचारादीनां च गायत्र्या प्रोक्षणं कृत्वा पा[३]कस्य पवित्रताऽस्त्विति ब्रूयात्[४] । अस्तु पवित्रतेति विप्राः । सर्वे पदार्थाः शुचयो भवन्त्विति कर्ता वदेत् । भवन्तु शुचय इति विप्राः प्रतिब्रूयुः ।

 ततो दक्षिणं जान्वाच्य पुरूरवसंज्ञकानां विश्वेषां देवानामिदमासनम् । आर्द्रवसंज्ञकानां विश्वेषां देवानामिदमासनम् । इत्युपक्लृप्ते आसने देवविप्राभ्यां प्रदायात्राऽऽस्यतामिति तयोरासनयोः प्राङ्मुखावाचान्तौ देवविप्रावुपवेशयेत् । धर्मोऽसीति विप्रयोः प्रतिवचनम् ।

 ततः प्राचीनावीती पितुरमुशकर्मणोऽमुकगोत्रस्य वसुरूपस्येदमासनमित्याद्यूहेनोपकल्पितान्यासनानि पित्रा[५]द्यर्थविप्रेभ्यो यथायथं प्रदाय, अत्राऽऽस्यतामिति तेष्वासनेषूदङ्मुखानाचान्तान्पित्रा[६]द्यर्थान्विप्रानुपवेशयेत् । धर्मोऽसीति विप्राणां प्रतिवचनम् ।

 तत आसादितार्घ्यपात्रद्वय[७]त एकं पात्रं गृहीत्वा देवविप्रपुरतो निधाय तस्मिन्पूर्वकृतं दर्भद्वयात्मकं पवित्रं प्रागग्रं निधाय तत्पात्रं शुद्धोदकेन संपूर्य 'यवोऽसि यवयास्मद्वेषो यवयारातीः' इति यवा[८]न्प्रक्षिप्य 'गन्धद्वाराम्' इति गन्धम्, 'ओषधयः प्रतिमोदध्वम्' इति पुष्पाणि निक्षिप्याग्नेरुत्तरतस्तत्पात्रं दर्भेषु निधाय तस्मादर्घ्यार्थं सर्वमुदकमुद्धृत्य तदीयं पवित्रं देवविप्रदक्षिणहस्ते धृत्वा पुरूरवसंज्ञका विश्वे देवा इदमर्घ्यं स्वाहा न ममेत्यर्धमर्घ्योदकं द्विवारं दद्यात् । अस्त्वर्घ्यमिति विप्रः । ततः शुद्धोदकं विप्रहस्ते दद्यात् । ततस्तत्पवित्रं द्वितीयदेवविप्रदक्षिणहस्ते दत्त्वाऽऽर्द्रवसंज्ञका विश्वे देवा इदमर्घ्यं स्वाहा न ममेति द्वितीयविप्रहस्त उद्धृतावशिष्टमर्घ्योदकं द्विवारं दद्याच्छुद्धोदकं च । द्वितीयविप्राभावे तस्यैव हस्ते चतुर्वारं देयम् ।

 ततो मध्यमयाऽङ्गुल्या 'गन्धद्वारां दुराधर्षां० श्रियम्' पुरूरवसंज्ञका विश्वे देवा एष गन्ध इति प्रथमदेवविप्रहस्ते द्विवारं दत्त्वा, आर्द्रवसंज्ञका विश्वे


  1. ङ. वुक्त्वाऽऽसन ।
  2. ङ. नुक्त्वाऽऽस ।
  3. ङ. पाकादीनां ।
  4. ङ. त् । सर्वे पाकादयः पदार्थाः शुचयो भवन्त्विति विप्राः प्र ।
  5. ङ. त्रादिवि ।
  6. ङ. त्रादिविप्रा ।
  7. च. यमेकं वा पा ।
  8. च. वाग्निक्षि ।