पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[दर्शश्राद्धप्रयोगः]
१०८५
संस्काररत्नमाला ।

अस्मत्पितृपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानाम्, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानाममुकामुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानां यद्दत्तं मासिश्राद्धीयमन्नमुदकादि तदक्षय्ययमस्त्विति भवन्तो ब्रुवन्तु इति पात्रद्वयस्थमुदकं[१] सहैव दद्यात्पृथक्पृथग्वा । तत उपवीती पुरूरवसंज्ञकानां विश्वेषां देवानां यद्दत्तं मासिश्राद्धीयमन्नमुदकादि तदक्षय्यमस्त्विति भवन्तो ब्रुवन्त्विति प्रथमदेवविप्रहस्ते यवोदकं दद्यात् । आर्द्रवसंज्ञकानां विश्वेषां देवानां यद्दत्तं मासिश्राद्धीयमन्नमुदकादि तदक्षय्यमस्त्विति भवन्तो ब्रुवन्त्विति द्वितीयदेवविप्रहस्ते । एकविप्रपक्षे--पुरूरवार्द्रवसंज्ञकानां विश्वेषां देवानामिति सहैवोत्कीर्तनम् । तत उपवीत्येव ताम्बूलपूर्वकं दक्षिणाः पान्तु इति[२] देवविप्राभ्यां दक्षिणां द[३]त्त्वा प्राचीनाचीती तथैव पित्र्यविप्रेभ्यो दक्षिणां दद्यात् । त[४]त्र देवानां सुवर्णं[५] वस्त्रधान्यादि च संभवे । पितॄणां रज[६]तं वस्त्रधान्यादि च संभवे । एकमेव यदि द्रव्यं दीयते तदा दक्षिणा पातु इत्येकवचनप्रयोगः । द्रव्यद्वित्वे दक्षिणे पातामिति । सर्वत्र बहुवचनान्तमेव वा । इति सर्वेभ्यो दक्षिणां दत्त्वा पान्तु दक्षिणा इ[७]त्यादि प्रश्नोहानुसारेण प्रत्युक्ते[८] पवित्रे अत्यक्त्वा त्यक्त्वा वा स्वधा संपद्यतामिति भवन्तो ब्रुवन्तु इति प्राचीनावीत्युक्त्वा संपद्यतां स्वधेति तैरुक्ते पि[९]ण्डसमीपे किंचिज्जलं निनीय पितृपितामहप्रपितामहेभ्यः, अमुकामुकशर्मभ्यः, अमुकगोत्रेभ्यः, वसुरुद्रादित्यस्वरूपेभ्यः, सपत्नीकेभ्यः, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहेभ्यः, अमुकामुकशर्मभ्यः, अमुकगोत्रेभ्यो वसुरुद्रादित्यस्वरूपेभ्यः सपत्नीकेभ्यः स्वधोच्यतामित्युक्त्वा, अस्तु स्वधेति तैरुक्ते--अघोराः पितरः सन्त्विति वदेत् । सन्त्वघोराः पितर इति[१०] पित्र्यविप्राः प्रतिब्रूयुः । त[११]तो विप्रैः शोभनं हविरिति हविर्गुणेषूक्तेषूपवीती-- 'दातारो नोऽभिवर्धन्ताम् । वेदाः संततिरेव नः । श्रद्धा च नो मा व्यगमत् । बहु देयं[१२] च नोऽस्तु । अन्नं च नो बहु भवेत् । अतिथींश्च लभेमहि । याचितारश्च नः सन्तु । मा च याचिष्म कंचन' इति विप्रेभ्य आशिषः प्रार्थयेत् । ततो विप्राः 'दातारो वोऽभिवर्धन्ताम् । वेदाः संततिरेव वः । श्रद्धा च वो मा व्यगमत् । बहु देयं च वोऽस्तु । अन्नं च वो बहु भवेत् । अतिथींश्च लभध्वम् । याचितारश्च वः सन्तु । मा च याचिढ्वं कंचन' इति आशिषो दद्युः[१३] । अत्र वा भोजनपात्रनिष्काशनम् । ततो


  1. ङ. कं दद्यात् । त ।
  2. ङ. ति द ।
  3. ङ. दद्या ।
  4. ङ. तत्राऽऽदौ दे ।
  5. ङ. र्णे ततः पि ।
  6. ङ. जतम् । इति सर्वे ।
  7. ङ. इति प्र ।
  8. ङ. क्ते स्व ।
  9. ङ. पिण्डान्ते ।
  10. ङ. ति प्र ।
  11. ङ. तत उप ।
  12. क. धेयं ।
  13. ङ. द्युः । ततः पिण्डा ।