पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[दर्शश्राद्धप्रयोगः]
१०८१
संस्काररत्नमाला ।

रेखां पितृवर्गार्थमुल्लिख्य पुनस्तेनैव मन्त्रेण तथैव मातामहवर्गार्थमेकां रेखां त[१]द्दक्षिणतस्तत्प्रत्यग्वोल्लिखेत् । स्फ्याभावे दर्भमूलेनोल्लिख्य तं दर्भं प्रज्ञातं निदध्यात् । ततः 'उदीरतामवर० हवेषु' इत्यद्भी रेखाद्वयं प्रोक्षेत् । प्रतिरेखं मन्त्रावृत्तिः । 'सकृदाच्छिन्नं बर्हिरू० नुगैः सह' इति सकृदाच्छिन्नेन पूर्वाहृतेन[२] बर्हिषा वेदिं स्तृणाति । यथा द्वयो रेखयोरास्तरणं भवे[३]त्तथा । दर्भाभावे सकृदाच्छिन्नैः काशैस्तथाभूताभी राजदूर्वाभि[४]रन्यैर्वा तृणैः स्तरणम् । आञ्जनं कज्जलम् । अभ्यञ्जनं तैलम् । दध्न उपरितनः स्नेहो वा । कशिपु मञ्चः सतूलिकः । उपबर्हणं शिरउपधानम् । उदकेन पूर्णः कुम्भ उदकुम्भः । ([५] आस्तृते सकृदाच्छिन्ने दक्षिणत आञ्जनमभ्यञ्जनं कशिपूपबर्हणमुदकुम्भं च प्रतिष्ठापयति । कशिपु, उपबर्हणमित्येकवचनादेकमेव । तूलिकोपधाने सबीजकार्पासगर्भिते । तच्च बीजमेकमेव परिशेषणीयं न तु बहूनि परिशेषणीयानि । अन्यथा मृदुत्वहान्यापत्तेः । बीजपरिशेषणं स्पर्शयोग्यतार्थमिति शिष्टाः ।) 'मार्जयन्तां पितरः सपत्नीकाः सोम्यासः । मार्जयन्तां पितामहाः सपत्नीकाः सोभ्यासः । मार्जयन्तां प्रपितामहाः सपत्नीकाः सोम्यासः' [६]त्यास्तृते सकृदाच्छिन्ने पितृवर्गार्थरेखामनुलक्षीकृत्य न्यञ्चितसव्यजानुरवाचीनपाणिर्दक्षिणापवर्गानाग्नेय्यपवर्गान्वा[७] रेखालेखनानुसारेण त्रीनुदकाञ्जलींस्त्रिभिर्मन्त्रैर्निनयति । चतुर्थपिण्डदानपक्षे तदर्थमपि तत्स्थाने तूष्णीं निनयनम् । एवं मातामहवर्गार्थां रेखामनुलक्षीकृत्य[८] पूर्ववन्मातामहाद्यर्थांस्त्रीनुदकाञ्जलीनूहेन तथैव निनयति । ततः पिण्डार्थं पूर्वोद्धृतमन्नं व्यञ्जनैर्मिश्रितं कृत्वाऽग्नौकरणशेषं तिलांश्च तस्मिन्नन्ने प्रक्षिप्य तेन षट्पिण्डान्कुक्कुटाण्डप्रमाणाञ्शक्तौ सत्यां नारिकेलप्रमाणान्कुर्यात् । चतुर्थपिण्डदानपक्षे चतुरश्चतुरः पिण्डान्कुर्यात् । अत्र मापान्केचिद्वर्जयन्ति ।

 ततः--

"शुक्लाम्बराः शुक्लगन्धाः शुक्लयज्ञोपवीतिनः ।
आत्माभिमुखमासीना ज्ञानमुद्रा निरायुधाः ॥
वसवः पितरो ज्ञेया रुद्रास्तत्र पितामहाः ।
पितुः पितामहाः प्रोक्ता आदित्या बर्हिषि स्थिताः" ॥

इति पितॄन्ध्यात्वा निनयनक्रमे[९]णाऽऽस्तृते सकृदाच्छिन्ने पत्न्या कृतांस्तदभावे स्वयमेव कृतान्रेखामनुलक्षीकृत्यावाचीनपाणिस्त्रीन्पिण्डान्ददाति[१०] । पत्नी यदा


१३६
 
  1. ङ. तद्वामतः प्रत्य ।
  2. ङ. न । वे ।
  3. ङ. वेत् । द ।
  4. ङ. भिर्वा स्त ।
  5. धनुश्चिह्नान्तर्गतग्रन्थो नास्ति ङ. पुस्तके ।
  6. ङ. इति तस्मिन्नास्तृते बर्हिषि न्य ।
  7. ङ. न्त्रा त्री ।
  8. ङ. त्य बर्हिषि मातामहाद्यर्थमूहेन । ततः ।
  9. ङ मेण बर्हिषि प ।
  10. ङ. ति । ए ।