पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०८०
[दर्शश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

तृप्तोऽसीत्याद्यूहेन तत्तद्विप्रं प्रति वदेत् । तृप्तोऽस्मीति स स प्रतिब्रूयात् । एकब्राह्मणपक्षे--अस्मत्पितृपितामहप्रपितामहा अमुकामुकशर्माणः, अमुकगोत्रा वसुरुद्रादित्यस्वरूपाः सपत्नीकाः, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहा अमुकामुकशर्माणोऽमुकगोत्रा वसुरुद्रादित्यस्वरूपाः सपत्नीकास्तृप्ताः स्थेति प्रश्नः । तृप्ताः स्मे(प्ताः स्म इ)ति प्रतिवचनम् । तत उपवीती--'मधु वाता ऋ० भवन्तु नः । अक्षन्नमीमदन्त ह्य० न्विन्द्र ते हरी' इति श्रावयित्वा[१], अस्मत्पितुर्मासिश्राद्धं संपन्नमिति पृष्ट्वा सुसंपन्नमिति सर्वैः प्रत्यु[२]क्त उच्छिष्टपिण्डार्थं पायसं विकिरार्थमोदनं च पृथक्पृथ[३]क्पात्र उद्धृत्य शेषमन्नं किं क्रियतामिति विप्रानुक्त्वा, इष्टैः सह भुज्यतामिति तैः प्रत्युक्ते 'असोमपाश्च ये देवा० वैश्वदेविकम्' इति प्रथमदेवविप्रपात्रसमीपे विकिरं दत्त्वा यवोदकं तदुपरि दद्यात् । एवं द्वितीयदेवविप्रपात्रसमीपे । ततः प्राचीनावीती 'असंस्कृतप्रमीता ये त्यागिन्यो याः कुलस्त्रियः । दास्यामि तेभ्यो विकिरमन्नं ताभ्यश्च पैतृकम्' इति मन्त्रावृत्या तत्तत्पित्र्यविप्रपात्रसमीपे विकिरं दत्त्वा तत्तदुपरि तिलोदकं दद्यात् । ततः पित्रुच्छिष्टपात्रसमीपे दर्भत्रयं दक्षिणाग्रं निधाय तत्र तिलोदकं दत्त्वा[४]ऽन्यत्तिलोदकं किंचिदुद्धृत्य स्वसमीपे निधाय[५] विकिरशिष्टौदनमिश्रितं पायसं केवलं पायसमेव वाऽऽदाय 'ये अग्निदग्धा येऽनग्निदग्धा जीवा जाताः कुले मम । भूमौ दत्तेन पिण्डेन तृप्ता यान्तु परां गतिम्' इति तदन्नं दर्भोपरि दत्त्वोद्धृतं तिलोदकं तदुपरि दत्त्वा कमपि पदार्थमस्पृशन्बहिर्गत्वा पवित्रे ग्रन्थिं मुक्त्वा त्यक्त्वा हस्तौ पादौ च प्रक्षाल्याऽऽच[६]म्यान्ये पवित्रे धृत्वोच्छिष्टभाग्भ्योऽन्नं दीयतामिति वदेत् । ते च-- 'यजमानकुले जाता० भूतले' इत्युच्छिष्टमन्नं वामभागे भूमौ निक्षिपेयुः[७] । देवविप्रौ दक्षिणभागे । ततः पूर्ववत्पितृपूर्वकमापोशनार्थं जलं दद्यात् । ततो द्विजा अमृतापिधानमसीति तदुदकं पीत्वा[८] कर्त्राऽऽचाराच्छ्रद्धायां प्राणे निविश्येत्यनुवाक उक्ते मुखहस्तपादक्षालनाद्याचमनान्तं कर्म कुर्युः[९] । अत्र वामदेव्यं साम जपेयुः । सामाध्ययनाभावे तदीया ऋचस्तदीयाध्ययनधर्मेण पठेयुः । विसर्जनोत्तरं चाऽयं पाठः । ततः कर्तोच्छिष्टसंनिधौ प्राचीनावीती दक्षिणामुखो दक्षिणदिक्संस्थं रेखाकरणादि कर्म कुर्यात् । आग्नेयीसंस्थत्वपक्ष आग्ने[१०]यीमुखता । 'अपहता असुरा रक्षा सि वेदिपदः' इत्युच्छिष्टसंनिधौ वेद्यां दक्षिणापर्वगामाग्नेय्यपवर्गां वैकां


  1. ङ. त्वा श्रा ।
  2. ङ. त्युक्ते सर्वस्मादन्नादुच्छि ।
  3. ङ. थगुद्धृ ।
  4. ङ. त्त्वा तिलो ।
  5. ङ. य पायसान्नमादाय ।
  6. ङ. चम्योच्छि ।
  7. ङ. युः । त ।
  8. ङ. त्वा मु ।
  9. ङ. र्युः । ततो यजमान उच्छि ।
  10. ङ. ग्नेय्यभिमुखः अ ।