पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[दर्शश्राद्धप्रयोगः]
१०७७
संस्काररत्नमाला ।

वेषणीयमिति केचित् । अत्रैव कस्मिंश्चित्पात्रे पिण्डार्थमपि सव्यञ्जनमन्नं परिवेषणीयम् । हुतशेषं किंचित्पिण्डार्थं परिशेष्यावशि[१]ष्टं सर्वं पित्र्यपात्रेषु परिवेषयेत् । ततो यज्ञोपवी[२]त्येव देवपात्रयोः समन्ताद्भस्ममर्यादां कृत्वा प्राचीनावीती पित्र्यविप्राणां समन्तादप्रदक्षिणं भस्ममर्यादां कृत्वा तत्तद्धर्मेणोपस्तीर्योपचीती, ओदनपायसादि सर्वं परिविष्य नैवेद्यं प्रदर्शयेत् । ततो देवपात्रस्थमन्नं गायत्र्या[३] शुद्धोदकेन प्रोक्ष्य घृतपात्रं भोजनपात्रे निधाय दक्षिणहस्ततर्जनीमध्यमाङ्गुष्ठैर्देवपात्रमालभ्य सत्यं त्वर्तेन परिषिञ्चामीति परिषिच्य 'पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखेऽमृतेऽमृतं जुहोमि स्वाहा ब्राह्मणानां त्वा प्राणापानयोर्जुहोम्यक्षितिरसि मा मे क्षेष्ठा अ[४]त्रामुप्मिल्लोँके' इति देवपात्रस्थमन्नमभिमृशेत् । मा देवानां क्षेष्ठा इत्यूहमिच्छन्ति केचित् । 'इदं विष्णु० सुरे' विष्णो हव्य रक्षस्व, इति द्वि[५]जहस्तमपरिवर्तयन्स्वीयेन दक्षिणेन हस्तेनापरिवर्तितेनैवाङ्गुष्ठमनखमन्ने निवेश्य यवोदकमादाय पुरूरवसंज्ञकविश्वे देवा देवता, इदमन्नं ह[६]व्यमयं ब्राह्मण आहवनीयार्थ इदं भूर्गयाऽयं भोक्ता गदाधर इदमन्नं ब्रह्मेदं सौवर्णपात्रमक्षय्यवटच्छाये[७]यमिति, अन्नादीन्पदार्थान्हविरादिभावनया भावयन्पुरूरवसंज्ञकेभ्यो विश्वेभ्यो देवेभ्य इदमन्नममृतरूपं परिविष्टं परिवेक्ष्यमाणं चास्य ब्राह्मणस्याऽऽतृप्तेः स्वाहा हव्यं न मम, इति विप्रदक्षिणभागे यवोदकं विसृजेत् । एवं द्वितीयदेवविप्रे । तत्र पुरूरवशब्दस्थान आर्द्रवशब्दप्रयोगः । ततः 'ये देवा दिव्येकादश स्थ० जुषध्वम्' इति देवानुपतिष्ठते । ततः प्राचीनावीती पितृपात्रस्थमन्नं गायत्र्या प्रोक्ष्य[८] घृतपात्रं भोजनपात्रे निधाय पूर्ववत्पात्रमालभ्य 'सत्यं त्वर्तेन परिषिञ्चामि' इति प्रदक्षिणमेव परिषिच्य 'पृथिवी ते पात्रं० जुहोमि स्वधा ब्राह्मणानां त्वा प्राणापानयोर्जुहोम्यक्षितिरसि मा मे क्षेष्ठा अ[९]त्रामुष्मिल्लोँके' '[१०]ति पितृपात्रस्थमन्नमभिमृशेत् । मा पितॄणां मा पितामहानां मा प्रपितामहानां क्षेष्ठा इत्यूहमिच्छन्ति केचित् । 'इदं विष्णुर्वि० पा सुरे' विष्णो कव्य रक्षस्व,' इति पूर्ववद्द्विजाङ्गुष्ठमनखमन्ने निवेश्य तिलोदकमादाय, अस्मत्पिताऽमुकशर्माऽमुकगोत्रो वसुरूपः सपत्नीको देवता, इदमन्नं कव्यमयं ब्राह्मण आहवनीयार्थ इयं भूर्गयाऽयं भोक्ता गदाधर इदमन्नं ब्रह्मेदं राजतपात्रमक्षय्यवटच्छाये[११]यमिति अन्नादीन्पदार्थान्हविरादिभावनया भावयन्, अस्मत्पित्रेऽमुकशर्मणेऽमुकगोत्राय वसुरूपाय सपत्नीकायेद


  1. ङ. शिष्टमन्नमपि पित्र्ये परिवेषणीयम् । विधुरेण तु देवविप्रपात्रयोरेव । त ।
  2. ङ. वीती देवेभ्यो न ।
  3. ङ. त्र्या प्रोक्ष्य दक्षिणेन हस्तेन देव ।
  4. ङ. च. अमुत्रा ।
  5. ङ. द्विजाङ्गुष्ठ ।
  6. ङ. हविरयं ।
  7. ङ. येयं पुरू ।
  8. ङ. क्ष्य पृ ।
  9. ङ. च. अमुत्रा ।
  10. ङ. इत्यभ ।
  11. ङ. येयम् । अस्म ।