पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[दर्शश्राद्धप्रयोगः]
१०७३
संस्काररत्नमाला ।

ण्यवर्णाः शुचयः० भवन्तु' इति मन्त्रेण वा, अस्मत्पित्रेऽमुकशर्मणे सपत्नीकाय स्वधा नम इति राजतेन ताम्रमयेण पर्णपुटेन वाऽऽसादितेनार्घ्यपात्रेण पितृविप्रदक्षिणकरेऽञ्जलौ वा वामकरान्वारब्धदक्षिणहस्तेन पितृतीर्थेन किंचिदवशेषयंस्त्रिः सकृद्वाऽर्घ्यं दद्यात् । प्रत्यर्घ्यं मन्त्रावृत्तिरिति केचित् । अथवा या दिव्या इति हिरण्यवर्णा इत्यन्यतमो(रो) मन्त्रो विप्रहस्तात्स्रवन्तीनामपामनुमन्त्रणम्(णे) । दानं तु अस्मत्पितरित्यादिनैव । अस्मिन्पक्षे गोत्ररूपस्वधानमः--शब्दोच्चारणे विकल्पः । अर्घ्यपात्रग्रहणे या दिव्या इति मन्त्र इति वा । त्रिवारमर्घ्यदानमिति पक्षे पक्षद्वयम् । अत्रैव त्रिवारं बहुस्मृतितः । पुरोऽन्नं द्विर्भुक्तवत्सु च तृतीयमिति बौधायनवचनात् । अन्नत्यागात्पूर्वं द्विवारं भुक्तवत्सु तृतीयमित्येवं त्रिवारम् । तत्र गोमयमण्डले चरणक्षालनानन्तरमेकमग्नौकरणात्पूर्वं द्वितीयं भुक्त्वाऽऽचान्तेषु द्विजेष्वक्ष[१]योदकाख्यं तृतीयमिति हेमाद्रिः । अमुष्मै स्वधाऽमुष्मै स्वधेति पित्रर्थेष्वपि पितुर्नाम गृह्णाति पितामहार्थेषु पितामहस्य प्रपितामहार्थेषु प्रपितामहस्य । एकत्वे तस्यैव हस्ते त्रीण्युदपात्राणि निनयति । त्रयाणां नामानि गृहीत्वेत्यनेनैकमर्चनकालेऽर्घ्यदानमुक्तम् । अङ्गुष्ठोपस्पर्शनात्पूर्वं द्वितीयम् । भुक्तवत्स्वाचान्तेष्वन्नप्रकिरणानन्तरं तथैव तृतीयमित्येवमुक्तं मातृदत्तेन । अर्घ्यपात्रात्पात्रान्तरेणाऽऽदायाऽऽदायार्घ्यदानमित्यप्युक्तम् । संस्थात्मके मासिश्राद्ध एतदेव शिष्टा आचरन्ति । ततः स्वर्घ्यमिति तेनोक्ते कूर्चेन तिलोदकं दद्यात् । अर्घ्यपात्रादुद्धृत्य पात्रान्तरेणार्घ्यदानमिति पक्षे खड्गपात्रेणासंभवेऽन्येन वाऽर्घ्यदानम् । एवं पितामहादिषूहेन तत्तदर्घ्योदकं देयम् । ब्राह्मणबहुत्वेऽपि पात्रषट्कमेव । तत्तत्स्थानीयविप्रहस्तेषु तत्तत्पात्रस्थोदकस्य विभज्य दानम् । एकब्राह्मणपक्षे तत्रैव सर्वपात्रस्थोदकदानम् । ततः पुत्रकामो यज्ञोपवीती प्राङ्मुखस्तत्तत्पात्रस्थास्ववशिष्टास्वप्सु स्वमुखमवलोक्याऽऽयुष्कामः किंचित्किंचित्तत्तत्पात्रस्था अपो लोचनयोर्निक्षिप्य दक्षिणामुखः प्राचीनावीतीं शुन्धन्तां लोकः पितृषदन इतिमन्त्रं सकृज्जपेत् । कामनाभावे न मुखावलोकनादि । ततः प्रपितामहपात्रस्थमपां शेषं पितामहपात्रे निक्षिप्य तज्जलं पितृपात्रे निक्षिप्य मातुःप्रपितामहपात्रशेषं मातुःपितामहपात्रे निक्षिप्य तज्जलं मातामहपात्रे निक्षिप्य पुत्रकामनायां यज्ञोपवीती ताभिर्दक्षिणहस्तेन प्राङ्मुखो मुखमङ्क्त्वा प्राचीनावीती दक्षिणामुखः पितृपितामहप्रपितामहद्विजकरस्थितकुशान्पितृपात्रे मातामहमातुःपितामहमातुःप्रपितामहद्विजकरस्थितकुशान्मातामहपात्रे निधाय शुन्धन्तां लोकः पितृषदन इति पित्र्यविप्रवामभागे तिलोदकेन भूमिं प्रोक्ष्य दक्षिणाग्रान्कुशानास्तीर्य 'पितृभ्यः स्थान


१३५
 
  1. च. क्षप्योद ।