पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०७२
[दर्शश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

पीतये । शं योरभि स्रवन्तु नः' इति पुनः किंचिदुदकं प्रक्षिपेत् । मधुघृतोदकक्षेपणं कृताकृतम् । ततः 'गन्धद्वारां दुराधर्षां० श्रियम्' इति चन्दनम् । 'ओषधयः प्रति० मासदत्' इति पुष्पाणि तुलसीपत्राणि च । भृङ्गराजपत्रलाभे तान्यपि सहैव प्रक्षिपेत् । तूष्णीं वैतेषां प्रक्षेपः । ततः सर्वपित्र्यपात्रस्था अपस्तेन तेन पवित्रेण देवो वः सवितोत्पुनात्विति त्रिस्त्रिरुत्पुनाति । सकृत्सकृद्वा । देवो वः सवितोत्पुनात्विति गायत्रीछन्दस्को मन्त्रस्तस्य पादे पाद एकैकमुत्पवनमेवं त्रिरिति मातृदत्तः । पादशः पठितेन गायत्रीछन्दस्केन मन्त्रेणान्ते सकृदुत्पूय तूष्णीं द्विरुत्पुनातीति वैजयन्तीकृत् । सकृत्पक्षे त्वन्त एवोभयमतेऽपि तूष्णीमेव वोत्पवनम् । ततो निरस्तं नमुचेः शिर इतिमन्त्रावृत्त्या तत्तत्पात्रतः किंचिद्बहिर्दक्षिणत उदकमुत्क्षिप्य 'पितृभ्यो नमः, पितामहेभ्यो नमः, प्रपितामहेभ्यो नमः, मातामहेभ्यो नमः, मातुःपितामहेभ्यो नमः, मातुःप्रपितामहेभ्यो नमः' इति षड्भिर्नाममन्त्रैः क्रमेण पात्रषट्के गन्धपुष्पतिलान्प्रक्षिपेत् । ततः पित्र्यपात्राणि संपन्नानीति पित्र्यविप्रान्वदेत् । सुसंपन्नानीति विप्राः । ततः पित्र्यविप्रदक्षिणकरेषु तिलोदकं कूर्चेन दत्त्वा सकुशांस्तिलान्दक्षिणहस्ते गृहीत्वा वामहस्तेन निरङ्गुष्ठेन प्रथमस्य विप्रस्य निरङ्गुष्ठं वामहस्तं धृत्वा[१], अस्मत्पितरममुकशर्माणममुकगोत्रं वसुरूपं सपत्नीकं त्वय्यावाहयिष्य इति प्रथमपित्र्यविप्रमामन्त्र्य, आवाहयेति तेनानुज्ञातः 'उशन्तस्त्वा हवामह० अत्तवे' अस्मत्पितरममुकशर्माणममुकगोत्रं वसुरूपं सपत्नीकमावाहयामि, इति शिरसि वामस्कन्धे दक्षिणस्कन्धे वामकरे दक्षिणकरे वामजानुनि दक्षिणजानुनि वामपादे दक्षिणपाद इति क्रमेण तांस्तिलान्निक्षिपेत् । शिरसि वामस्कन्धे वामकरे वामजानुनि वामपाद इत्येतेष्वेव वा । इदमावाहनम् । निक्षेपणकाले किंचिदवशेषयन्निक्षिप्यावशेषितांस्तिलान्प्रथमार्घ्यपात्रे निक्षिपेत् । पुनरन्यान्सकुशांस्तिलान्गृहीत्वा पूर्ववद्वामहस्तं धृत्वा[२], अस्मत्पितामहममुकशर्माणममुकगोत्रं रुद्ररूपं सपत्नीकं त्वय्यावाहयिष्य इत्यूहेनाऽऽवाहनाद्यवशेषिततिलानां तदीयार्घ्यपात्रे निक्षेपणान्तं कृत्वा कुशतिलग्रहणादि निक्षेपणान्तं प्रपितामहादिपात्रेषूहेन कुर्यात् ।

'उपहूताः पितरः सोम्यासो० त्वस्मान्' इति पितॄनुपतिष्ठते । ततस्तिलोदकं कूर्चेन दत्त्वा, अस्मत्पितरमुकशर्मन्नमुकगोत्र वसुरूप सपत्नीक संपादितास्ते स्वधाऽर्घ्या इत्याद्यूहेन तत्तदर्घ्यपात्रं तत्तद्विप्रनिकटे निदध्यात् । सन्त्वर्घ्या इति प्रतिवचनम् । ततस्तिलोदकं कूर्चेन दत्त्वा प्रथमपात्रस्थं पवित्रं दक्षिणाग्रं प्रथमविप्रदक्षिणहस्तेऽञ्जलौ वा निधाय गन्धपुष्पाभ्यां तद्धस्तमञ्जलिं वाऽभ्यर्च्य दक्षिणामुख एव 'या दिव्या आपः पयसा० वर्चसा' इति मन्त्रेण 'हिर


  1. क. च. त्वा, ॐ अं ।
  2. क. च. त्वा, ॐ अ ।