पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[दर्शश्राद्धप्रयोगः]
१०७१
संस्काररत्नमाला ।

मपित्र्यविप्राय निवेद्य स्वासनमिति तेनोक्ते सव्यहस्तेनाऽऽसनं स्पृशन्भूर्भुवः सुवः, अत्राऽऽस्यतामिति दक्षिणहस्तेनाऽऽसनस्योपरि दक्षिणामुख उदमुङ्मुखमुपवेशयेत् । ओमिति विप्र उक्त्वा 'जङ्घाभ्यां पद्भ्यां० प्रतिष्ठितः' इति मन्त्रेण तत्रोपविशेत् । अस्मत्पितामहस्येत्याद्यूहेन प्रथमपित्र्यविप्रवदासनदानाद्युपवेशनान्तम् । चतुर्थ्या विभक्त्या वाऽत्राप्यासनदानम् । 'स इषुहस्तैः स० नमः ककुभाय नमो निषङ्गिण ये तीर्थानि० इन्द्र दृह्यया० वाशीमन्त ऋष्टिमन्तो स इषुहस्तैः० ' इति पूर्ववद्यथाशाखं निषङ्गपदवन्मन्त्रजपः । एकविप्रपक्षे-- अस्मत्पितृपितामहप्रपितामहानाममुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानाम् । अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानाममुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानामिदमासनमिति सहैवोत्कीर्तनम् । एवमन्यत्रापि । अस्मत्सपत्नीकपित्रर्थं त्वया क्षणः करणीय इत्यादितत्तच्छब्दोहेन क्रमेण तत्तद्विप्रं प्रति वदेत् । ओं तथेति प्रतिवचनम् । ततः प्रथमपित्र्यविप्रस्य पुरत आसनाद्द्वादशाङ्गुलपरिमितं स्थलं त्यक्त्वा तत्र कूर्चेन तिलोदकेन भुवं प्रोक्ष्य तत्र दक्षिणाग्रं दक्षिणसंस्थमाग्नेय्यग्रमाग्नेयीसंस्थं वा स्थलत्रये दर्भपञ्चकं दर्भपञ्चकं दर्भत्रयं दर्भत्रयं वा निधाय स्थानत्रयस्थितेषु दर्भेषु अष्टाङ्गुलविस्तृतमेकैकं पात्रं न्युब्जं निधाय तेभ्यः प्रसिद्धपश्चिमदिशि तथैव दर्भेषु मातामहाद्यर्थमेकैकं पात्रं निधाय कूर्चेन तिलोदकेन पात्रपट्कं प्रोक्ष्योत्तानानि क्रमेण कृत्वा सममन्तर्गर्भरहितं साग्रदर्भत्रयं गृहीत्वाऽग्रभागे प्रादेशमात्रमवशेष्य तृणं काष्ठं वाऽन्तर्धायासिदेनान्येन या दात्रेण तूष्णीमेव च्छिनत्ति न नखेन । ततः शुद्धोदकं स्पृष्ट्वा तृष्णीमेव तिलोदकेनोन्मृज्यैवमेवान्यत्पवित्रपञ्चकं कृत्वोन्मृजेत् । एकैकदर्भमयानि(णि) वा षट्पवित्राणि । ततस्तूष्णीमेव तिलोदकेन पवित्राणि पात्राणि च प्रोक्ष्य पात्राणामुपरि तानि पवित्राणि च्छेदनक्रमेण दक्षिणाग्राण्याग्नेय्यग्राणि वा निधाय समन्यायन्तीति शं नो देवीरिति वा दक्षिणामुख एव पात्रषट्कं क्रमेणोपबिलं पूरयेत् । मन्त्रावृत्तिः सर्वत्र । ततस्तत्सवितुरिति गायत्र्या सर्वपात्रस्था अपोऽनुमन्त्रयते । अत्र संभवात्सकृदेव मन्त्रः ।

 ततः--

"तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः ।
प्रत्नवद्भिः प्रत्तः स्वधया पितॄनिमाँल्लोकान्प्रीणयाहि नः स्वधा नमः"

 इति मन्त्रावृत्त्या पितृतीर्थेन क्रमेण तिलान्निक्षिपेत् । तिलोऽसि पितृदेवत्य इति वा पाठः । प्रीणयाहि न इत्यत्र प्रीणाहीत्यपि पाठः । एवमग्रेऽपि सर्वत्र मन्त्रावृत्तिः । ततो मधु वाता इति त्रिभिर्मन्त्रैस्तेषु मधु निक्षिप्य 'सोमस्य त्विषि रसि तवेव मे त्विषिर्भूयात्' इति घृतम् । 'शं नो देवीरभिष्टये । आपो भवन्तु