पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[दर्शश्राद्धप्रयोगः]
१०६९
संस्काररत्नमाला ।

"आगच्छन्तु महाभागा विश्वे देवा महाबलाः ।
ये ह्यत्र विहिताः श्राद्धे सावधाना भवन्तु ते" ॥

 इति देवविप्रौ वदेत् । भवन्त्विति विप्रौ । विश्वेषां देवानां विशेषतः स्वरूपाज्ञानेऽयं श्लोकः पठनीय इति हेमाद्रिः । ततो यवोदकं कूर्चेन दत्त्वा 'पुरूरवसंज्ञका विश्वे देवाः संपादिता वः स्वाहाऽर्घ्याः' इति प्रथममर्घ्यपात्रं प्रथमविप्रस्य निकटे निदध्यात् । सन्त्वर्घ्या इति विप्रः । 'आर्द्रवसंज्ञका विश्वे देवाः संपादिता वः स्वाहाऽर्घ्याः' इति द्वितीयमर्घ्यपात्रं द्वितीयविप्रस्य निकटे निदध्यात् । सन्त्वर्घ्या इति विप्रः । ततो यवोदकं कूर्चेन दत्त्वा प्रथमपात्रस्थं पवित्रद्वयं प्रागग्रं प्रथमदेवविप्रदक्षिणहस्तेऽञ्जलौ वा निधाय गन्धपुष्पाभ्यां तद्धस्तमञ्जलिं वाऽभ्यर्च्य 'या दिव्या आपः पयसा संबभूवुः । या अन्तरिक्ष उत पार्थिवीर्याः । तासां त्वा सर्वासा रुचा अभिषिञ्चामि वर्चसा' इति मन्त्रेण 'हिरण्यवर्णाः शुच० भवन्तु' इति मन्त्रेण वा । पुरूरवसंज्ञका विश्वे देवा इदं वो अर्घ्यं स्वाहा नम इति सौवर्णेन ताम्रमयेण पर्णपुटेन वा प्रथमदेवविप्रदक्षिणकरेऽञ्जलौ वा देवतीर्थेन द्विवारमर्घ्यं दद्यात् । स्वर्घ्यमिति तेनोक्ते कूर्चेन यवोदकं दद्यात् । कूर्चेन यवोदकदानादिहस्ताभ्यर्चनान्तं कृत्वाऽऽर्द्रवसंज्ञका विश्वे देवा इत्यूहेन द्वितीयपात्रस्थमुदकं द्वितीयविप्रकरे पूर्ववद्दद्यात् । स्वर्घ्यमिति तेनोक्ते कूर्चेन यवोदकं दद्यात् । ततो देवार्घ्यपात्रद्वयमेकं वा देवविप्रयोर्दक्षिणतः 'देवेभ्यः स्थानमसि' इति दर्भेषु न्युब्जमुत्तानं वा संस्थापयेत् । अर्घ्यपात्रयोर्जलावशेषणपक्ष उत्तानमन्यथा न्युब्जम् । उत्तानपक्षे दर्भैस्तदाच्छादनं कार्यं गन्धपुष्पप्रक्षेपणं च । पात्रचालनमासमाप्ति न कुर्यात् । यदि बहवो ब्राह्मणास्तदाऽपि पात्रद्वयमेव विभज्य दानम् । एकब्राह्मणपक्षेऽप्येवम् । ततो हस्तस्थे पवित्रे निष्काश्य पात्रे निधाय 'गन्धद्वारां दुराधर्षां० श्रियम् । पुरूरवसंज्ञका विश्वे देवा अमी वो गन्धाः स्वाहा नमः। 'गन्धद्वारां० श्रियम्' आर्द्रवसंज्ञकविश्वे देवा अमी वो गन्धाः स्वाहा नम इति हस्तेनैव गन्धान्दद्यात् । स्वाहा नम इति सर्वेषूपचारेष्वनुषज्यते । प्रत्युपचारं तूष्णीं जलदानम् । सुगन्धाः सन्त्विति प्रतिवचनम् । एकवचनान्तो वाऽयं गन्ध इति गन्धशब्दः प्रयोक्तव्यः । अस्मिन्पक्षे सुगन्धोऽस्त्विति प्रतिवचनम् । मस्तके लापनकाल एव पवित्रनिषेध इति मते दाने पवित्रधारणनिषेधो न । दानलापनयोरुभयोरपि ग्रन्थिमत्पवित्रधारणं निषिद्धमिति मते तु ते पवित्रे यस्मिन्कस्मिंश्चित्पात्रे निधाय ग्रन्थिरहिते अन्ये पवित्रे धृत्वा गन्धदानं विप्रभालादौ लापनं च कृत्वा ते पवित्रे त्यक्त्वा पूर्वधृते ग्रन्थिमती पवित्रे धृत्वा पुष्पदानादि कर्तव्यमिति क्रमः । गन्धलापनं तु यथाकथंचित्तिर्यग्लेपनमात्रं गन्धदानोत्तरं