पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८३६
[जातकर्मप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
(मेधाजननम्)
 

ॐ नक्तंचारिण उरस्पेशान्स्थूलहस्तान्कपालपान्स्वाहा ॥
ॐ पूर्व एषां पितेत्युच्चैः श्राव्यकर्णकः ।
माता जघन्या गच्छन्ति(न्ती) ग्रामे विखुरमिच्छन्ती स्वाहा ॥
ॐ नक्तंचारिणी स्वसा संधिना प्रेक्ष्यते कुलम् ।
या स्वपत्सु जागर्ति यस्यै विजातायां मनः स्वाहा ॥
ॐ तासां त्वं कृष्णवर्त्मने क्लोमान हृदयं यकृत् । अग्ने यक्षीणि निर्दह स्वाहा"

 इत्येकादशभिः स्वाहाकारान्तैर्मन्त्रैः प्रतिमन्त्रं हस्तेनैवाङ्गारेषु कणानावपत्युद्धूपनार्थम् । सूत्रेऽङ्गारेष्वितिवचनं ज्वालाकाष्ठवत्तानिवृत्त्यर्थम् । आवपतीतिवचनं हस्तेन प्रक्षेपार्थम् । उद्धूपनार्थमप्येतत्स्वाहाकारवत्त्वाद्धोमकर्मैव । तेन परिस्तरणपरिषेकभावः सायंप्रातःपक्षश्चोक्तो भवति । परिस्तरणपरिषेकप्रतिषेधपक्षे सकृदिहैवोद्धूपनम् । अथवा सायमेवोपक्रम्य सायंप्रातर्दशाहमुद्धूपनभूम्यालम्भने कार्ये । केचित्परिस्तरणं तूष्णीं परिषेकं चेच्छन्ति । परिस्तरणपरिषेकाभावपक्षे न त्याग इ[१]ति केचित् ।

ततः पाणी प्रक्षाल्य

"ॐ यत्ते सुशीमे त्दृदयं दिवि चन्द्रमसि श्रितम् ।
तस्यामृतत्वस्य नो धेहि माऽहं पौत्रमघ रुदम् ॥
वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् ।
तथाऽमृतत्वस्येशानो माऽहं पौत्रमघ रुदम्" ॥

 इति द्वाभ्यां भूमिमालभते । जातकर्मोत्कर्षेऽपि कुमारमनवलोकयन्नुद्धूपनमात्रं कर्तव्यमेव, रक्षणार्थत्वात् । भाष्यादप्येवं प्रतीयते । भूम्यालम्भनमप्युद्धूपनसंबन्धित्वात्कार्यम् ।

अथ मेधाजननम् ।

  दर्भेण हिरण्यं प्रबध्य गोघृतेऽन्तर्धाय प्राक्शिरसमन्येन धार्यमाणं कुमारं घृतं प्राशयति--"ॐ भूर्ऋचस्त्वयि जुहोमि स्वाहा । ॐ भुवो यजू षि त्वयि जुहोमि स्वाहा । ॐ सुवः सामानि त्वयि जुहोमि स्वाहा । ॐ भूर्भुवः सुवरथर्वाङ्गिरसस्त्वयि जुहोमि स्वाहा" इत्येतैश्चतुर्भिः प्रतिमन्त्रम् । नात्र त्याग इति मातृदत्तः । इति मेधाजननम् ।

 ततः क्षेत्रियै त्वेति द्वयोर्मन्त्रयोर्विश्वे देवाः कुमारस्त्रिष्टुप् । सूर्यमृतमित्यस्य विश्वे देवाः कुमारस्त्रिष्टुप् । कुमारस्नापने विनियोगः । "ॐ क्षेत्रियै त्वा निर्ऋत्यै त्वा० इमे । शं ते अग्निः सहा० भवन्तु । सूर्यमृतं तम० पाशात्" ।


  1. ख. इत्यपि ।