पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०६०
[दर्शश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

च पाको घटिकाचतुष्टयोत्तरं संगवपूर्वार्धे वाऽऽरम्भणीयः । पुरुषस्य पाककर्तृत्वे महानसे रेखाकरणादि । न स्त्रियाः पाककर्तृत्वे । पाकसिद्ध्युत्तरं कर्ता) पाकः सिद्ध आगम्यतां[१] पुरूरवसंज्ञकविश्वदेवार्थं त्वामहं निमन्त्रये । दैवे क्षणः क्रिय[२]ताम् । आर्द्रवसंज्ञकविश्वदेवार्थं त्वामहं निमन्त्रये । दैवे क्षणः क्रियताम् । सपत्नीकपित्रर्थं त्वामहं निमन्त्रये । पित्र्ये क्षणः क्रियतामित्यादि यथायथं दैवपित्र्यधर्मेण पूर्ववन्निमन्त्रणं कुर्यात्[३] । पूर्ववज्जपः सर्वेषाम् । ततो द्वादशघटिकाभ्य ऊर्ध्वं कर्ता ([४]तीर्थं गत्वा मध्याह्नस्नानं श्राद्धार्थं स्नानं च तन्त्रेण करिष्य इति संकल्प्य तन्त्रेण स्नानद्वयं विदध्यात् । प्रसङ्गसिद्धिर्वा श्राद्धार्थस्नानस्य । अस्मिन्कल्पे मध्याह्नस्नानं करिष्य इत्येतावानेव संकल्पः । ततो मध्याह्नसंध्यां कृत्वा ब्रह्मयज्ञोऽकृतश्चेत्तमपि कृत्वा तर्पणं विधाय, इमं मे वरुणेत्याद्यैर्मन्त्रैर्वरुणं संप्रार्थ्य दक्षिणप्रवाहं शुद्धं जलं श्राद्धार्थमाहरेत् । आहारयेद्वा । तदभावे शुद्धं जलमितरदिक्प्रवाहम् । तीर्थे स्नानाशक्तौ गृह एवोष्णोदकेन स्नानम् । ततो मौनी गृहमागत्य हस्तपादान्प्रक्षाल्याऽऽचम्याग्निसमीपमागत्योपविश्य सर्वां सामग्रीं स्वसमीपे निधाय शुद्ध्यर्थं पवमानानुवा[५]कं कूश्माण्डानुवाकान्वा पठित्वा पुण्डरीकाक्षं स्मृत्वा, ॐ वैष्णव्यै नमः । ॐ काश्यप्यै नमः । ॐ क्षमायै नमः । इति पृथ्वीं नमस्कुर्यात् । तत आगतैर्ब्राह्मणैः सति संभवे श्मश्रुकर्माभ्यञ्जनादि कारयेत् । न वा । ततो द्विराचम्य सौवर्णं ताम्रमयं वाऽव्रर्णं पात्रं देवकार्यार्थं यवसंयुक्तोदकेन पूरयित्वा तस्मिन्नवसप्तपञ्चान्यतमसंख्यदर्भात्मकं ग्रन्थियुतं समन्ताद्दर्भवेष्टितं कूर्चं चन्दनं पुष्पाणि फलं हिरण्यं च प्रक्षिपेत् । ततः प्राचीनावीती राजतं ताम्रमयं वाऽव्रणं पात्रं पित्र्यकार्यार्थं तिलसंयुक्तोदकेन पूरयित्वा तस्मिन्पूर्ववत्कूर्चं चन्दनादीनि च प्रक्षिपेत् )। ततो यज्ञोपवीती 'शुची वो हव्या मरुतः शुचीनां शुचिः हि० पावकाः । अग्निः शुचिव्रततमः० प्यर्चयः" इति शुद्धोदकेनाऽत्मानं मार्जयेत् ।

ततः--

"समस्तसंपत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः ।
अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादपांसवः ॥


  1. ङ. तां दै ।
  2. ङ. यतां पित्रर्थे क्षण: क्रियतामि ।
  3. ङ. त् । त ।
  4. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके 'तीर्थे स्नात्वा मौनी कृतमाध्याह्निकक्रियो गृहमागत्य हस्तपादान्प्रक्षाल्याग्निसमीपमागत्याऽऽचम्य, एकस्मिन्पात्रे देवकार्यार्थं यवमिश्रितमुदकं कृत्वा तस्मिन्दर्भमयं कूर्चं गन्धादींश्च निक्षिप्य प्राचीनावीती--अन्यस्मिन्पात्रे पितृकार्यार्थं तिलमिश्रितमुदकं कृत्वा दर्भमयकूर्चं गन्धादींश्च निक्षिपेत्' इति वर्तते ।
  5. च. कं प ।