पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[दर्शश्राद्धप्रयोगः]
१०५९
संस्काररत्नमाला ।

जानीयात् । अस्मिन्मासिश्राद्धे सपत्नीकपितामहार्थं[१] त्वामहं निमन्त्रये । अस्मि० सपत्नीकप्रपितामहार्थं[२] त्वामहं निमन्त्रये । अस्मिन्मासिश्राद्धे सपत्नीकमातामहार्थं[३] त्वामहं निमन्त्रये । अस्मिन्मासिश्राद्धे सपत्नीकमातुःपितामहार्थं[४] त्वामहं निमन्त्रये । अस्मिन्मासिश्राद्धे सपत्नीकमातुःप्रपितामहार्थं[५] त्वामहं निमन्त्रये । इति यथायथं विप्रान्निमन्त्रयेत्[६] । पित्र्ये क्षणः क्रियतामित्यादि समानं सर्वत्र । ॐ तथेति स विप्रः प्रतिजानीयात् । अत्र पितृविप्रा आ ब्रह्मन्नित्यनुवा[७]कम्, "उपह्वये सुदुघां स्तदु षु प्रवोचम्" इत्यृचं वा यथाशाखं पठेयुः । उपह्वये हिंकृण्वतीत्यृग्द्वयं पठेत्, इति केचित् । तपोविद्याबाहुल्याद्यनुसारेण निमन्त्रणे क्रमो ज्ञेयः । सर्वेषां तुल्यत्वे त्वैच्छिकः । मातामहानां पृथग्वैश्वदेवपक्षे दश ब्राह्मणाः । तन्त्रपक्षेऽष्टौ । अत्यशक्तौ देवार्थ एकः । पितृपार्वणार्थ एकः । मातामहपार्वणार्थ एकः । पृथग्वैश्वदेवपक्षे चत्वारः । यदा त्वेक एव विप्रस्तदा तत्रैव पार्वणद्वयम् । देवस्थाने शालग्रामशिलादि संस्थाप्य देवकार्यं संपादनीयम् । तदीयप्रतिवचनानि तु स्वयमेव वदेत् । लोप एवं वा । श्राद्धसमाप्तौ तदीयमन्नमग्नौ प्रक्षिपेत् । ब्रह्मचारिणे वा दद्यात् । सर्वथा ब्राह्मणालाभेऽनियतदर्भात्मकान्दर्भवटूंस्तत्तत्स्थाने निधाय प्रतिवचनयुक्तं सर्वं श्राद्धं कर्तव्यम् । तदीयं दक्षिणादिकमन्येभ्यो ब्राह्मणेभ्यो देयम् । ब्राह्मणाभावेऽप्सु क्षेपणीयम् । स्वस्य निमन्त्रणासामर्थ्ये तु सुतेन शिष्येण सजातीयेन येन केनचित्साधुनाऽऽप्तेन वा कारयेत् । द्व्यहकालतापक्षे[८] यज्ञोपवीती स्वयमेव ब्राह्मणगृहं गत्वेत्यादि एतदन्तं पूर्वस्मिन्दिने सायंहोमानन्तरं कर्तव्यम्[९] । अस्यां रात्रौ न भोजनम् । तर्पणं परेद्युः श्राद्धीयप्रयोगारम्भात्प्राक् । ततो यज्ञोपवीत्येव लौकिकाग्नौ स्वयमेव पाकं कुर्यात् । ([१०]स्वस्याशक्तावन्यः कर्ता । अन्यकर्तृकत्वे पुरुषेषु समानप्रवरसपिण्डमित्रगुणवत्कृतोपकाराः प्रशस्ताः । स्त्रीषु तु पत्न्येव मुख्या पाककर्त्री । तस्या अभावे मात्राद्यन्यतमा तदभावे मातृपितृवंशजा । तत्र विधवाऽन्यगोत्रजा पाखण्डा पुंश्चली पतिता कुत्सिता व्यङ्गा चतुर्थाहःस्नाता गर्भिणी मृतवन्ध्या गर्भघ्नी दुर्मुखीत्याद्याः स्त्रियो वर्ज्याः । पाखण्ड्यादिदोषवत्त्वे पत्न्यादयोऽपि वर्ज्याः । अयं


  1. ङ. र्थे क्षणः क्रियताम् अ ।
  2. ङ. क्षणः क्रियताम् । अ ।
  3. ङ. र्थे क्षणः क्रियताम् । अ ।
  4. ड. र्थ क्षणः क्रियताम् । अ ।
  5. ङ. र्थे क्षण इ ।
  6. ङ. त् । ॐ ।
  7. ङ. वाकं जपेयुः । एतच्च पृ ।
  8. ङ. क्षे तर्पणव्यतिरिक्तमेत । च. क्षे, ए ।
  9. ङ. म् । ततो ।
  10. धनुश्चिह्नान्तर्गतग्रन्थस्थाने 'स्वस्याशक्तौ पत्न्यादिभिः । अत्र' इति वर्तते ङ. पुस्तके ।