पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०५८
[दर्शश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

पूर्वं गोत्रोच्चारणं पश्चान्नामोच्चारणमित्येवं वा । एवं सर्वत्र । नामाज्ञाने पिण्डदानव्यतिरिक्तकर्मसु ब्रह्मविष्णुशिवशब्दैर्व्यवहारः । गोत्राज्ञाने काश्यपगोत्रम् । ([१]सर्वदा रुद्राक्षतुलस्यादिधारणनियमरहितस्य न श्राद्धे रुद्राक्षतुलस्यादिधारणम् । नात्र शङ्खशुक्तिघण्टानादाः । सर्वत्र देवकार्येषु दक्षिणजानुनिपातः । पित्र्यकार्येषु सव्यजानुनिपातः । देवकार्य ऋजवश्चत्वारश्चत्वारो दर्भाः । पितृकार्ये पञ्च पञ्च भुग्नाः पिण्डास्तरणवर्जम् । श्राद्धारम्भप्रभृति समाप्तिपर्यन्तं कलहं भार्यादिताडनं शूद्रादिसंभाषणं च न कुर्यात् । एवं विप्रा अपि न कुर्युः । मालाधारणमपि विप्रा न कुर्युः कर्ता च । एतस्मिन्दिने स्वशरीरं कर्ता नालंकुर्यात् । पिण्डदानात्प्रागेतस्मिन्दिने बालादीनपि न भोजयेत् । पक्वमपक्वं वाऽन्यस्मा अन्नं न दद्यात् । यद्येतस्मिन्दिने श्राद्धभोजनार्होऽतिथिरागच्छेच्चेत्तमपि श्राद्धे भोक्तुं नियोजयेत् । यदि प्रमादादामन्त्रितं विप्रं विस्मरेत्तदा तं प्रयत्नेन प्रसाद्य विशेषेण तोषयेत् । ) ततो यज्ञोपवीती स्वयमेव ब्राह्मणगृहं गत्वा दक्षिणहस्तेन ब्राह्मणस्य[२] दक्षिणजानुन आलम्भनं कृत्वाऽद्य[३] श्वो वा करिष्यमाणेऽस्मिन्मासिश्राद्धे पुरूर[४][५]संज्ञकविश्वदेवार्थं त्वामहं निमन्त्रये, इति निमन्त्रयेत् । दैवे क्षणः क्रियतामिति ब्रूयात् । ओं तथेति स विप्रः प्रतिजानीयात्[६] । प्राप्नोतु भवानिति कर्ता विप्रं वदेत् । प्राप्तवानीति विप्रः कर्तारं प्रति वदेत् । ([७]आर्द्रव[८]संज्ञकविश्वदेवार्थं त्वामहं निमन्त्रय इति द्वितीयविप्रनिमन्त्रणम् । उभयत्रापि पुरूरवार्द्रव[९]संज्ञकविश्वदेवार्थं त्वामहं निमन्त्रय इत्येवं वा । इदं च पक्षद्वयं सर्वत्र[१०] वैकल्पिकं ज्ञेयम्[११] । ) दैवे क्षणः क्रियतामित्यादि समानं सर्वत्र । मातामहार्थं पृथग्वैश्वदेवपक्षे तदर्थमपि द्वौ विप्रौ पूर्ववन्निमन्त्रयेत् । अत्र देवविप्रावा ब्रह्मन्नित्यनुवा[१२]कम् , उपह्वये सुदुघां धेनुमेतां सुहस्तो० स्तदु षु प्रवोचमित्यृचं वा यथाशाखं पठेताम् । उपह्वये हिंकृण्वतीत्यृग्द्वयं पठेदिति केचित् । ततः प्राचीनावीती पित्रर्थब्राह्मणगृहं गत्वा तस्य सव्यजानुन आलम्भनं कृत्वा, अद्य करिष्यमाणेऽस्मिन्मासिश्राद्धे सपत्नीकपित्रर्थं[१३] त्वामहं निमन्त्रय इति विप्रं निमन्त्रयेत् । पित्र्ये क्षणः क्रियतामिति ब्रूयात् । ओं तथेति स विप्रः प्रति


  1. धनुश्चिह्नान्तर्गत नास्ति ङ. पुस्तके ।
  2. ङ. स्य जानुद्वयमालभ्याद्य ।
  3. ङ. च. द्य क ।
  4. च. रवार्द्रव ।
  5. ङ. वदेवार्थे । क्षणः क्रियतामिति निमन्त्रयेत् । ओं ।
  6. ङ. त् । आ ।
  7. धनुश्चिह्नान्तर्गतं नास्ति च पुस्तके ।
  8. ङ. वदेवार्थे क्षणः क्रियतामिति द्वि ।
  9. ङ. वदेवार्थे क्षणः कियतामित्येव वा । इदं ।
  10. ङ. त्र ज्ञे ।
  11. ङ. म् । मा ।
  12. ङ. वाकं जपेताम् । ततः ।
  13. ङ. र्थे क्षणः क्रियतामिति विप्रं निमन्त्रयेत् । ओं ।