"नैकः श्राद्धद्वयं कुर्यात्समानेऽहनि कुत्रचित्" । |
इति निषेधस्तु काम्यश्राद्धपरो ज्ञेयः । न सोष्यन्ती जातकर्मेतिवचनप्राप्तोऽङ्गभूतनान्दीश्राद्धनिषेधश्छन्दोगविषयः । नान्दीश्राद्धे युग्मब्राह्मणभोजनपर्याप्तमाम हिरण्यं वा स्वाहा न ममेति समर्पणवाक्ये विशेषः ।
ततोऽश्मनि परशुं निधाय तदुपरिष्टाद्धिरण्यं तानि विपरीतानि कृत्वा तदुपरि हस्ताभ्यां कुमारं प्राञ्चं धारयति--
- "ॐ अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । वेदो वै पुत्रनामाऽसि जीव त्व शरदः शतम् । अङ्गादङ्गात्संभवसि हृदयादधि जायसे । आत्मा वै पुत्रनामाऽसि स जीव शरदः शतम्" इति ।
गर्भे निर्गते जरायुर्नाम गर्भवेष्टनपुटकं किंचित्स्त्रीणामुदरान्तर्गतं तद्यदि केनचित्कारणेन न निर्गच्छति न पतति तदाऽञ्जलिनोदकमादाय, "ॐ तिलदेव पद्यस्व न मा समसि नो दलमवपद्यस्व स्वपथात्" इति मूर्धानमस्या [अ]वसिञ्चति । नैमित्तिकमिदम् ।
तत औपासनाग्निं सूतिकागारे चेद्बहिरुद्धननादिसंस्कृते देशे संस्थाप्योत्तपनीयमाम्बरीषं वाऽग्निं सूतिकागारे नीत्वा संस्थापयेत् । एकं कपालं संतप्तं कृत्वा तस्मिञ्छुष्कगोमयचूर्णं प्रक्षिप्य [१] प्र[२]ज्वलयेदेष उत्तपनीयः । अम्बरीषं भ्राष्ट्रं तत्रत्योऽग्निराम्बरीषः ।
ततस्तमग्निं परिस्तीर्य समत्रं परिषिच्य--
"ॐ शण्डो मर्क उपवीरः शाण्डिकेर उलूखलः । |