पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[दर्शश्राद्धप्रयोगः]
१०५७
संस्काररत्नमाला ।

"ये राक्षसाः श्रिता दिक्षु श्राद्धकर्मविघातकाः ।
तिलप्रकिरणात्सर्वे तेऽपगच्छन्तु दूरतः" ॥

 इति दिग्बन्धार्थं तथैव तिलान्विकिरेत् । ततः प्रमादकृताविज्ञाताशुचित्वनिवृत्त्यर्थं शुचित्वातिशयार्थं वा पुण्डरीकाक्षं स्मरेत् । ततः कुरुक्षेत्राय नमः । गयायै नमः । गङ्गायै नमः । प्रभासाय नमः । पुष्करेभ्यो नमः । गदाधराय नमः । वस्वादिभ्यः पितृभ्यो नमः । इति ध्यानपूर्वकमेतान्नमस्कृत्योदङ्मुखो द्विराचम्य,

([१] "पवित्रं ते वितनं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः ।
अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत" ॥

 इति दर्भचतुष्टयात्मके दर्भत्रयात्मके दर्भद्वयात्मके वा ब्रह्मग्रन्थिमती हस्तयोः पवित्रे बिभृयात् । द्विगुणीकृतानां दर्भशिखानां पाशः प्रादक्षिण्येन सर्ववेष्टनं विधाय पुरोभागेन(ण) प्रवेश्यते स ब्रह्मग्रन्थिः । अनन्तर्गर्भितसाग्रद्व्याद्यन्यतमसंख्यदर्भनिर्मितं प्रादेशमात्रं पवित्रं[२] कुर्यात् । तन्मूलं द्व्यङ्गुलम् । एकाङ्गुलो ग्रन्थिः । चतुरङ्गुलमग्रम् । तस्य ग्रन्थिः प्रणवेन कार्या । आचमनसमये ग्रन्थिमत्पवित्रे पात्रे निधायाऽऽचमनार्थं ग्रन्थिरहिते अन्ये पवित्रे धृत्वाऽऽचमने कृते ग्रन्धिरहिते पवित्रे त्यक्त्वा पूर्वधृते ग्रन्थिमती पवित्रे बिभृयात् । पवित्रस्य भूमौ पाते स्नात्वाऽऽघमर्षणं सकृज्जपित्वा प्राणायामत्रयं कुर्यात् । श्राद्धमध्ये स्नाननिषेधान्मार्जनमेव । ततः ) प्राणानायम्य देशकालौ संकीर्त्य पुरूरवार्द्रवसंज्ञकानां विश्वेषां देवानां तृप्त्यर्थमित्युक्या प्राचीनावीती भूत्वा दक्षिणामुखः, अस्मत्पितृपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानाम्, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानाममुकामुकशर्मणाममुकगोत्राणां वसुद्रादित्यस्वरूपाणां सपत्नीकानां तृप्त्यर्थे ([३]मासिश्राद्धमन्नेन हविषा सद्यः करिष्य इति संकल्पं कुर्यात् । सपत्नीकानामित्येतदमुकगोत्राणामित्येतत्पूर्वं वा वदेत् । अमुकदामुकदापत्नीसहितानामित्येवं वा सपत्नीकशब्दस्थाने वदेत् । एवं तत्तद्विभक्त्यूहेन सर्वत्र गोत्रोच्चारणं सर्वत्र सकारसहितं वा । यथाऽमुकसगोत्राणामिति ।)


  1. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
  2. क. त्रं त ।
  3. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके 'दर्शश्राद्धाख्यं मासिश्राद्धं सदैवं सपिण्डं पार्वणेन विधिनाऽन्नेन हविषा सद्यः करिष्य इति संकल्पं कुर्यात्' इति ग्रन्थो वर्तते ।