श्राद्धस्यापि प्रसङ्गसिद्धिः । देवतैक्ये क्वचिदेकनिमित्तकानुष्ठानेनाप्यन्यनिमित्तकस्य प्रसङ्गतः सिद्धिर्भवति । तदप्युक्तं तत्रैव--
इतरस्याल्पतन्त्रस्यापि सिद्धेः, उत्तरं महातन्त्रमाचरेदित्यर्थः ।
स्मृतिसंग्रहे--"काम्यतन्त्रेण नित्यस्य तन्त्रं श्राद्धस्य सिध्यति" इति ।
दर्शे वार्षिकं चेत्तदा पूर्वं वार्षिकं कृत्वाऽनन्तरं पिण्डपितृयज्ञो दर्शश्राद्धं चेति क्रमः ।
"दर्शे क्षयाहे संप्राप्ते कथं कु[३]र्वन्ति याज्ञिकाः । |
इति स्मृतिसारवचनादिति निर्णयप्रदीपे[४] । केचित्तु--एतद्वचने मूलाभावात्, 'पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः' इति दर्शश्राद्धे पिण्डपितृयज्ञानन्तर्यस्याऽऽब्दिकेऽप्यतिदेशप्राप्तेः पिण्डपितृयज्ञानन्तरं वार्षिकं ततो दर्शश्राद्धमिति । निमित्तानियतिश्चात्र पूर्वानुष्ठानकारणमिति कालादर्शोक्तिरप्यत्रानुकूला । सर्वान्प्रत्यैकरूप्याभावात्क्षयाहनिमित्तस्यानियतत्वम् । ([५] सांवत्सरिकमहालयदर्शानां संपातेऽल्पत्वान्निमित्तानियतत्वादा(च्चाऽऽ)दौ मध्याह्न एव सांवत्सरिकं श्राद्धं कृत्वा ब्राह्मणविस्तारवर्जं महालयं कृत्वा पिण्डपितृयज्ञं कृत्वा दर्शश्राद्धं कुर्यात् । सांवत्सरिकात्पूर्वं पिण्डपितृयज्ञ इति मतं(ते) तदनुसारेण पूर्वं कार्यः । अत्र सर्वश्राद्धपाकभेदः केवलौदनमात्रभेदो वा । दर्शश्राद्धमत्र सांकल्पविधिनैव कार्यमन्यथाऽपराह्णे कर्मचतुष्टयासंभवात् । मासिकश्राद्धस्य दर्शश्राद्धाभे(द्भे)दस्य साधितत्वात्तस्यापि सर्वामावास्यास्वनुष्ठाने पिण्डपितृयज्ञेन सह चतुर्णां श्राद्धानामनुष्ठानासंभवात्सांवत्सरिकस्य दर्शस्य च सांकल्पविधिनैवानुष्ठानम् । ) एवं मासिकादिष्वपि ज्ञेयम् ।
"प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि" । |
इति सर्वातिदेशात् । एतच्च देवताभेद[६] इत्याहुः । इति संपातनिर्णयः ।